About Me

My photo
Kasaragod, Kerala, India

Thursday, 27 April 2017

Dr Muralisham H
Asst. Prof in Maharshi Mahesh Yogi Vedic Vishwavidhyalaya
ज्योतिर्विद्या 01
नवांशाधिपाः को नाम नवांशः कति नवांशाः कुतश्च नवांशगणना इति विवेचनम्।
नवांशं नाम किम्? इति जिज्ञासा भवति एव। राशेः नवमो भागः नवांशः। प्रतिराशि त्रिंशत् अंशात्मकः इति ज्ञातं खलु। प्रत्येकमपि अंशः षष्ठिकलात्मिका भवति। अतः त्रिंशत् अंशः xषष्ठिकलाः (60) अर्थात् 1800 कलाः सम्पूर्णराशौ  कलाः भवन्ति। प्रतिराशिं नवविभागः क्रियते तर्हि अंशत्रयं विंशतिकालाः प्राप्स्यन्ते। तच्च 1800/9=200 कलाः भवन्ति।अर्थात् 200/60=3अंशाः। विंशति अंशाः भवन्ति। अत्र भवतः स्मर्तव्य तथ्यः-
          एकः नवांशः अंशत्रयं विंशतिकलाः भवन्ति।
यथा द्वादशराश्यधिपाः वर्तन्ते तथैव नवांशाधिपाः अपि भवन्ति। मेषनवांशस्य अधिपः कुजः, वृषभनवांशस्य शुक्रः, मिथुननवांशस्य अधिपः बुधः, बुधो मिथुनस्य, चन्द्रः कर्कटनवांशस्य, रविः सिंहनवांशस्य, बुधः कन्यायाः, शुक्रः तुलायाः, अवनिजः अङ्गारकः वृश्चिकस्य, धन्विनः सुरगुरुः, शनिः मकरकुंभयोः, गुरुः मीननवांशस्य अधिपः भवति।
कः ग्रहः कस्य नवांशे वर्तते? ते च नवांशकाः कथं भवन्ति? तद्विज्ञानं कथम्? इति ज्ञातव्यं भवति। शून्य(0) अंशात् -अंशात्रयम् विंशतिकलाः(3-20) यावत् प्रथमो नवांशः भवति। 3 अंशम्.20’कलात् ,  6अंशं.40’ कलां यावत् द्वितीयो नवांशः भवति। 6.40’-10.00’ यावत् तृतीयनवांशः। 10 .00’ तः 13 अंश.20’ कलां यावत् चतुर्थनवांशः भवति। 13.20’ तः 16.40’ अंशं यावत् पञ्चमनवांशं भवति। 16.40’तः 20.00’ षष्ठनवांशः भवति। 20.00’ तः 23.20’ सप्तमनवांशः भवति। 23.20’-26.40’अष्टमनवांशः भवति । 26.40’-30.00’ नवमनवांशः भवति। नवांशाधिपतयः कथं भवन्ति? नवांशव्यवस्था कथम् इति विधिम् लिख्यते। आदौ मेषराशौ प्रथमनवांशः मेषनवांशः, अधिपश्च कुजः भवति। मेषराशौ द्वितीयनवांशः वृषभनवांशः, अधिपश्च शुक्रः भवति। एवं क्रमशः नवमनवांशः धनुनवांशः अधिपश्च गुरुः भवति। इत्थं मेषराशेः नवनवांशाः समाप्ताः। ततः वृषभराशेः अंशान् प्रारप्स्यते। मेषराशेः नवमनवांशः धनुः आसीत्, अतः वृषभस्य आदिमनवांशः धनुः, ततः तदनन्तरराशिः  मकरः भवति। वृषभस्य द्वितीय नवांशः कुंभनवांशः भवति। तस्य अधिपः नवांशाधिपः शनिः भवति। इत्थं वृषभराशौ मकरात् प्रारभ्य नव अंशाः क्रमेण मकर-कुंभ-मीन-मेष-वृषभ-मिथुन-कर्क-सिंह-कन्या इति नवांशाः भवन्ति। एतेषाम् अधिपाः नवांशाधिपतयः भवन्ति। अग्रिमराशिः मिथुनराशिः भवति। मिथुनराशौ प्रथमनवांशः तुलाराशीतः प्रारप्स्यते। मिथुनराशौ द्वितीयनवांशः वृश्चिकनवांशः भवति। वृश्चिकस्य अधिपः कुजः, मिथुनराशौ द्वितीयनवांशाधिपः भवति। मिथुनराशौ तृतीयनवांशः धनुराशिः भवति। तस्य अधिपश्च गुरुः नवांशाधिपः भवति। एवं क्रमशः नव नवांशाः तुलातः प्रारभ्य नवराशयः भवन्ति। अर्थात् मिथुनराशिः नवम नवांशः भवति। तस्य अधिपश्च बुधः भवति। मिथुनराशौ अन्तिमनवांशः मिथुनम् आसीत्,अतः कर्कराशौ आद्यनवांशः कर्कः एव। अग्रे कर्काटकराशौ द्वितीयनवांशः सिंहः भवति। सिंहराशेः अधिपः रविः द्वितीयनवांशाधिपः भवति। एवं क्रमशः कर्कात् आरभ्य नवराशयः कर्क-सिंह-कन्या-तुला-वृश्चिक-धनु-मकर-कुंभ-मीना इति नवनवांशाः भवन्ति। अतः राशीनां नवांशाधिपानां गणनाविधिः द्वादशराशिषु, क्रमशः मेष-मकर-तुला-कर्क इति क्रमेण अनुवर्तते। अत्र अवबोधनीयः अंशः-
          अजमकरतुलाकर्का इति राशीनाम् अधिपतेः गणना प्रारभ्यते।
बोधप्रश्न
नवांशस्य उपयोगः कः?
विंशोपकबले नवांशस्य कति बलम्?

🌹ज्योतिर्विद्या-02🌹

 द्वादशांशाधिपाः(को नाम द्वादशांशाः?, कति द्वादशांशाः?, द्वादशगणनारम्भः कुतः? इति कथनम् उदाहरणप्रदर्शनं च।
प्रतिराशिः यदा द्वादशधा विभक्ता तदा द्वादशांशः भवति। राशेः द्वादशतमो भागः एकः द्वादशांशः भवति। यथा-  प्रतिराशिः 30 अंशः, अर्थात् षष्ठ्या हते (30*60’=1800) तदित्थम् 1800’ कलाः प्रतिराशिषु भवन्ति। अष्टदशशतात् द्विशतम् विभक्ते (1800’कलाः/12) = 150’ कलाः प्राप्स्यन्ते। अर्थात् 150’/60=(2) अंशद्वयम् 30’ कलाः भवन्ति। शून्यांशतः अंशद्वयम् त्रिंशत् कलां यावत् प्रथमद्वादशांशः (0-2.30’), द्वितीयद्वादशांशः 2.30’-5.00’, तृतीयद्वादशांशः5.00’-7.30’, चतुर्थद्वादशांशः 7.30’-10.00’, पञ्चमद्वादशांशः 10.00’-12.30’, षष्ठद्वादशांशः 12.30’-15.00’, सप्तमद्वादशांशः 15.00’-17.30’, अष्टमद्वादशांशः 17.30’-20.00’, नवमद्वादशांशः 20.00’-22.30’, दशमद्वादशांशः 22.30’-25.00’, एकादशतमद्वादशांशः 25.00’-27.30’, द्वादशतमद्वादशांशः 27.30’-30.00’ एवं द्वादशांशाः भवन्ति। द्वादशांशस्य अधिपतयः कथम् भवन्ति? इति जिज्ञासा। तदुच्यते- ग्रहस्थितराशिम् प्रारभ्य द्वादशराशेः अधिपाः क्रमशः द्वादशांशाधिपतयः भवन्ति। ग्रहः यस्मिन् राशौ व्यवस्थितः ततः प्रारभ्य गणयेत्। यथा प्रथमद्वादशांशस्य अधिपः ग्रहस्थितराशेः अधिपः एव भवति। द्वितीयद्वादशांशस्य अधिपः ग्रहस्थितराशितः द्वितीय द्वितीयभावाधिपः भवति। एवं क्रमेण द्वादशराश्यधिपाः भवन्ति। उदाः 1-2-45’-00” (उदाहरणम् कल्पतिम्) राशिस्थाने एकम् इति लेखनत्वाद् प्रथमराशिः अतीतम् इति ज्ञातव्यम्। अंशद्वयम् पञ्चचत्वारिंशत्कलाः (2.45’)  भवन्ति। 2.30’ तः 5.00’ पर्यन्तं द्वितीयद्वादशांशः भवति। वृषभराशितः द्वितीयभावः मिथुनः भवति। अतः बुधः द्वितीयभावाधिपः द्वादशांशाधिपः भवति।
अत्र भवता ज्ञातव्यः तथ्यः-
राशेः द्वादशतमो भागः एकः द्वादशांशः भवति। तच्च ग्रहस्थानात्क्रमशः गणनारम्भः भवति।
प्रयोजनम्-
होराशास्त्रे द्वादशांशविधिमुक्तं यथा-“स्तेन भोक्ता  पण्डिताद्याः। भवनसमांशकाधिपतयः स्वगृहात्क्रमशः।”
अन्वयः= स्वगृहात्क्रमशः भवनसमांशक अधिपतयः भवन्ति।
अन्वयार्थः= स्वगृहात् क्रमशः=स्वभवनात्क्रमशः, भवनसमांशक=द्वादशांशः, अधिपतयः=द्वादशांशाधिपाः भवन्ति।
भावः = प्रत्येकस्मिन् राशेः द्वादशधा विभक्ते द्वादशांशः भवति। ग्रहः यस्मिन् द्वादशांशे भवति, ग्रहस्थित राशिमारभ्य क्रमशः गणयेत्।
बोधप्रश्नाः-
1.       द्वादशांशः कथं भवन्ति?
2.       द्वादशांशाः कति कलात्मकं भवति?
3.       द्वादशांशस्य प्रयोजनम् किम्?
4.षोडशवर्गे अस्य महत्त्वं किम्?
।।जयतु गुरुदेवः जय महर्षि जी।।

ज्योतिर्विद्या 03
त्रिंशांशाधिपाः-
खेटैः स्फुटैः एव फलस्फुटत्वं जायते। स्फुटफलनिर्देशनाय सूक्ष्मफलचिन्तानाय षड्वर्गाः उपयुज्यन्ते। तेषु षड्वर्गेषु त्रिंशांशोऽपि अन्यतमः। त्रिंशाशानाम् विचाराः अधुना वर्णयामि। पञ्चताराग्रहाः एव त्रिंशांशाधिपाः भवन्ति। के च ते?, ते च कुजः, रविजः, गुरुः, ज्ञः, शुक्रः एते त्रिंशांशपतयः भवन्ति। सूर्यचन्द्रौ त्रिंशांशपती न भवतः। त्रिंशांशाधिपतिविचारः उच्यते।
 आदौ, ग्रहः व्यवस्थितराशिः विषमे समे वा इति, निर्णेतव्यः। ततः यदि ग्रहः विषमे सति एषः क्रमः अनुसर्तव्यः। यथा- आदौ पञ्च अंशानां कुजः, ततः पञ्च अंशानां शनिः, ततः अष्टाशं यावत् गुरुः, ततः सप्तांशं यावत् बुधः, ततः पञ्च अंशं यावत्  शुक्रः अधिपः भवति। समराशौ प्रथमपञ्चांशाः शुक्रस्य, ततः सप्तबुधस्य, ततो अष्टौ गुरोः, ततः पञ्चांशानां शनेः, ततः पञ्चांशाः कुजस्य, भवन्ति। यस्य त्रिंशांशः उदितः तद्वशाद् अवकाशः अवगन्तव्यः।
कल्पितोदाहरणम्-गुरुः-3-10-10’-00”। अस्मिन् गुरुस्फुटे ग्रहः कर्काटकराशौ एकादशे अंशे दशमे कलायां स्थितः इति। कर्काटकराशिः समराशिः तत्रप्रथमपञ्चांशकानाम् अर्थात् शून्यात् प्रारभ्य पञ्चाशं यावत् अधिपः शुक्रः भवति। ततः सप्त अंशानाम् अर्थात् द्वादशांशं यावत् बुधः अधिपः भवति। दशमाशं परिसमाप्य ग्रहः एकादशे अंशे दशमकलायां स्थितः। तस्य अधिपः बुधः इत्यतः बुधः त्रिंशांशाधिपः भवति।
अत्र ध्यातव्ये अंशे-
          कुजशनिगुरुज्ञशुक्राः विषमराशिषु क्रमशः पञ्च-पञ्च-अष्ट-सप्त-पञ्चाशानाम् अधिपाः भवन्ति।
          समराशिषु व्युत्क्रमेण त्रिंशांशाक्रमः भवति। अर्थात् सितवित्गुरुसौरिरिनतनयः क्रमशः पञ्चसप्ताष्टपञ्चपञ्चांशानाम् अधिपतयः भवन्ति।
कुजरविजगुरुज्ञशुक्रभागाः पवनसमीरणकौर्पिजूकलेयाः ।।
अयुजियुजि तु भे विपर्ययस्थाः शशिभवनालिझषान्तं ऋक्षसंधिः । ।
पदच्छेदः-कुज-रविज-गुरु-ज्ञ-शुक्रभागाः पवन-समीरण-कौर्पि-जूक-लेयाः अयुजि युजि तु भे विपर्ययस्थः शशिभवन-अलि-झष-अन्तम् ऋक्षसंधिः।(पुष्पिताग्रा)
अन्वयः= कुज-रविज-गुरु-ज्ञ-शुक्रभागाः (क्रमशः) पवन-समीरण-कौर्पि-जूक-लेयाः अयुजि; युजि-भे विपर्ययस्थाः(ज्ञेयाः)शशि- भवन-अलि-झष-अन्तम् ऋक्ष-संधिः ज्ञेया।
अन्वयार्थः= कुजः=अवनिजः, रविजः=शनिः, गुरुः=जीवः, ज्ञः=बुधः, शुक्रः=सितः, भागाः(क्रमशः) पवनः=पञ्चमः, समीरणः=पञ्चमः, कौर्पि=अष्ट, जूकः=तुला, लेयाः=सिंहाः, अयुजि=विषमराशिषु; युजि=समे, भे=राशिषु, विपर्ययस्थाः(ज्ञेयाः)शशिभवन-अलि-झषाः=कर्कवृश्चिकमीनाः, अन्तम्=अन्त्यम्, ऋक्षः=नक्षत्रम्, संधिः= ज्ञेया।
भावः=त्रिंशांशां विचारम् उक्तम् अस्ति। कुज-शनि-गुरु-ज्ञ-शुक्रभागाः पञ्च-प़ञ्च-अष्ट-सप्त-पञ्चांशानाम् विषमराशिषु, समराशिषु विपर्ययस्थाः त्रिंशांशाधिपाः भवन्ति। कर्क-वृश्चिक-मीनान्तं राशि-नक्षत्र-सन्धिः प्रारम्भः भवति।
प्रश्नाः।
1.       त्रिंशंशाः कथं भवन्ति?
2.       विषमराशिषु त्रिंशंशानाम् अधिपाः के भवन्ति?
3.       समराशिषु त्रिंशंशानाम् अधिपाः के भवन्ति?
4.       त्रिंशांशेषु किमर्थम् ताराग्रहाणाम् एव स्थानम्?
5.       किमर्थम् त्रिंशांशानाम् कुजशनिगुरुज्ञशुक्राः इति क्रमशः अधिपतयः भवन्ति।
6.       यद्यपि सूरयचन्द्रौ त्रिंशांशपती न भवतः तथापि तेषाम् महत्त्वम् त्रिंशांशे अस्ति। तत् किम्?

ज्योतिर्विद्या 04
मेषादीनां संज्ञाविशेषाः-
जनाः राशीनां पर्यापपदानि लोकव्यवहार्थम् उपयोगं कुर्वन्ति। क्रियः इति शब्दः मेषराशेः पर्यायः भवति। तावुरि वृषभराशेः, जितुमा मिथुनस्य, कुलीरः कर्काटकसस्य, लेयः इति सिंहस्य, पाथोनः कन्यायाः, जूकः तूलायाः, कौर्प्या इति वृश्चिकस्य पर्यायाः मन्यन्ते। तौक्षिकः धनुषः, आकोकेरो मकरस्य, हृद्रोगः कुम्भस्य अन्त्यभ इति मीनस्य  च पर्यायपदं भवति। ‘गोसिंहौ जितुमाष्टमौ क्रियतुले’ इत्थं प्रयोजनं भवति।
अत्र अवधेयः अंशः-
          क्रिय-तावुरि-जितुम-कुलीर-लेय-पाथोन-कौर्पि-जूक-तौक्षिक-आकोकेरो-हृद्रोगः च अन्त्यभं च इत्थं क्रमशः मेषीदीनां पर्यायाः भवन्ति।
श्लो-
क्रियातावुरिजितुमकुलीरलेयपाथोनजूककौर्प्याख्याः ।
तौक्षिक आकोकेरो हृद्रोगश्चान्त्यभं च इत्थम् । ।(आर्या)”
पदच्छेदः= क्रिय-तावुरि जितुम-कुलीर-लेय-पाथोन-जूक-कौर्प्या आख्याः तौक्षिक आकोकेरो हृद्-रोगः च अन्त्य भं च इत्थम् ।
अन्वयः= क्रियः तावुरि-जितुमा-कुलीर-लेय-पाथोन-जूक-कौर्प्या- तौक्षिक-आकोकेर-मकर-हृद्रोगाः अन्त्यभं च इत्थं पर्यायपदानि आख्याः।
अन्वयार्थः= क्रियः=मेषः, तावुरि=वृषभः जितुमा=मिथुनः, कुलीरः=कर्काटकः, लेयः=सिंहः, पाथोनः=कन्या, जूकः=तुला, कौर्प्या=वृश्चिकःतौक्षिकः=धनुः, आकोकेरः= मकरः, हृद्रोगः=कुंभम्, अन्त्यभम्=मीनम्, च इत्थम् पर्यायपदानि भवन्ति ।
भावः= क्रिया तावुरि जितुम कुलीर लेय पाथोन कौर्पि जूक तौक्षिक आकोकेरो हृद्रोगः च अन्त्यभम् च इत्थम् क्रमशः मेषीदीनां राशीनां पर्यायपदानि भवन्ति इति भावः।
बोधप्रश्नः-
1.       मेषादिराशीनां पर्यायपदानि कानि?
2.       लेय इति पदस्य आङ्ग्ले leo इत्यस्य च कः सम्बन्धः?
3.       क्रियादिपदानाम् निष्पत्तिः कथम्?

ज्योतिर्विद्या 05
         होराशब्दस्य अर्थविशेषौ-
द्वादशराशयः 24 घंटासुराशिचक्रमेकं भ्रमन्ति।  यदि द्वादशराशीनां घंटा चतुर्विंशतिः स्यात्, तर्हि एकः राशेः किम्? इति विज्ञातुम्, अनुपातेन एकः राशिः अर्थात् 24/12= 2 घंटात्मकम् भवति। राश्यर्धं होरा इत्यनेन एकः रशेः अर्धः भागः अर्थात् 2/2= 1 घंटात्मकं भवति। 15 अंशाः = 1 घंटां यावत् भवति। तस्य अधिपतयः उक्तः होरायां सूर्यचन्द्रयोः एवाधिपत्यम्। तद्विज्ञानमुच्यते- विषमराशिषु सूर्यः प्रथमहोराधिपः, चन्द्रः द्वितीयहोराधिपः भवति। अस्य व्युत्क्रमेण समराशिषु चन्द्रः प्रथमहोराधिपः, सूर्यः द्वितीयहोराधिपः भवति इति ज्ञेयम्।
होराशब्दस्य अर्थमुच्यते-
मार्ताण्डेन्द्वोः अयुजिसमभे चन्द्रभान्वोश्च होरे।
अत्र स्मर्तव्यः तथ्यः-
प्रयोजनम्।
 “सूर्यहोरायां जाताः तेजस्विनः चन्द्रहोरायां जाताः मृदुस्वभावाः भवन्ति।“
प्रश्नाः
1.       होरा कति अंशात्मकं भवति?
2.       होरा कति घंटात्मिका भवति?
3.       समराशिषु होराधिपतेः व्यवस्था कीदृशी अस्ति?
4.       विषमराशौ होराधिपतेः व्यवस्था कीदृशी अस्ति?
5.       किमर्थं होरायां रविचन्द्रयोः एव आधिपत्यम्?
6.       नभसि होरा कुत्र भवति?
7)किमर्थम् फलितज्योतिषस्य होराशास्त्रेति कथ्यते?
8 होरायाः निष्पत्तिः कथम्?

ज्योतिर्विद्या 06
राशीनां दिनरात्रिसंज्ञा पृष्ठोदयादिसंज्ञा च।
राशीनां दिनरात्रिसंज्ञाः वर्तन्ते। शिरसा ये राशयः उदयं यान्ति ते शीर्षोदयाः। ते राशयः दिवसे बलिनः भवन्ति। ये राशयः पृष्ठेन उदयं यान्ति ते पृष्ठोदयाः भवन्ति। वृषः, मेषः, कर्काटकः, मिथुनः, मकरः षड्राशयो रात्रिबलसंज्ञाः भवन्ति। सिंह-कन्या-तुला-वृश्चिक-कुम्भाः एते राशयः दिवाबलीराशयः भवन्ति। सिंह-कन्या-तुला-वृश्चिक-कुम्भाः एते राशयः शीर्षोदयराशयः भवन्ति। मेष,वृष, कर्काटकः,धनुः,मकरः च एते राशयः  एव पृष्ठोदयसंज्ञाः वर्तन्ते। मीनराशिः उभयोदयः भवति।
 अस्य प्रयोजनं भट्टोत्पलेन उक्तः। यथा-
स्थिरराशौ लग्नगते स्थानप्राप्तिं वदेन्न गमनं च। रोगोपशमो नाशो द्रव्याणां स्यात् पराभवो नात्र।।
चरराशौ विपरीतं  मिश्रं वाच्यं द्विमूर्त्युदये। स्थिरवत् प्रथमेर्धं स्यादवरं चरराशिवत् सर्वम्।।“
संज्ञाः श्लोकाः ग्रन्थकरोक्तिरियम् ।
गोजाश्विकर्किमिथुनाः समृगानिशाख्याः पृष्ठोदया विमिथुनाः कथितास्त एव । ।
शीर्षोदया दिनबलाश्च भवन्ति शेषाः लग्नं समेत्युभयतः पृथुरोमयुग्मम् ।।“
प्रश्नकाले तत्कालोदयराशिवशात् पृच्छकस्य शुभाशुभकथने अपि फलदः भवति।
प्रश्नाः
1.       किमर्थम् मीनः उभयोदयः भवति?
2.       फलप्रवचने अस्योपयोगः कस्मिन् सन्दर्भे भवति?

ज्योतिर्विद्या-07
राशीनां क्रूरसौम्यादयः संज्ञाः।
 द्वादशराशीनां क्रूर-सौम्य-पुरुष-स्त्रियः इति संज्ञाः वर्तन्ते। क्रूरः, सौम्यः, इति क्रमेण मेषादीनां राशीनां संज्ञा भवति। पुरुष-वनिता इति द्वादशराशीनां क्रमशः मेषादि आरभ्य संज्ञाः भवन्ति। मेषः क्रूरसंज्ञः, पुरुषसंज्ञः च। वृषः सौम्यसंज्ञा, स्त्रीसंज्ञा च भवन्ति। मिथुनः, सिंहः, तुला, धनुः, कुंभः, क्रूर-पुरुषसंज्ञात्मकराशयः च भवन्ति। वृषभः, कर्काटकः, कन्या, वृश्चिकः, मकरः, मीनः, सौम्यः, च स्त्रीसंज्ञात्मकाः राशयः भवन्ति। मेष-सिंह-कुंभराशयः निसर्गतः क्रूराः भवन्ति। मिथुन-तुला-धन्विनः क्रूरेषु सौम्याः। वृषभमीनौ निसर्गसौम्यौ भवतः। अन्ये सौम्येषु क्रूराः। राश्यधिपानां बलहीनत्वे राशयः फलदाः भवन्ति। अनेन ओजराशिषु जाताः क्रूराः भवन्ति। युग्मराशिषु जाताः पुरुषाः सौम्याः भवन्ति। प्रयोजनं पुरुषराशिषु जाताः तेजस्विनः, स्त्रीराशिषु, जाताः मृदवो भवन्ति।
 चर-स्थिर-उभयसंज्ञाः कथिताः। मेषादिराशीनां क्रमशः चर-स्थिर-उभयसंज्ञाः भवन्ति। मेषस्य चरसंज्ञा, वृषभस्य स्थिरसंज्ञा, मिथुनस्य उभयसंज्ञा भवन्ति। कर्कस्य चरसंज्ञा, सिंहस्य स्थिरसंज्ञा, कन्यायाः उभयसंज्ञाः, भवन्ति। तुलायाः चरसंज्ञा, वृश्चिकस्य स्थिरसंज्ञा, धनुराशेः उभयसंज्ञाः भवन्ति। मकरस्य चर, कुंभ-स्थिर, मीनस्य उभयसंज्ञाः च भवन्ति।
प्रयोजनम्।
चरराशिषु जाताः चरस्वभावाः स्थिरेषु, द्विस्वभावेषु मिश्रस्वभावाः भवन्ति।
सत्यचार्यस्य मतम्।
चरसंज्ञास्थिरसंज्ञा द्विप्रकृतिरिति राशयः क्रमशः ।  राशिस्वभावतुल्यजायन्ते प्रकृतयः प्रसूतानाम्।।
प्रश्नाः
1)      किमर्थम् समविषमेति भेदः? ग्रहाः राशिवशात् बलिनः भवन्ति किम्?
2)      पुरुषग्रहाः कस्मिन् राशौ कति बलवत्तराः भवन्ति?
3)      प्रागुक्तानां चरादिसंज्ञानाम् उपयोगः फलप्रवचने कुत्र भवति?

ज्योतिर्विद्या -08
राशीनां दिशाधिपत्यम्।
क्रिय-वृष-नृयुक्-कर्क्कटाः त्रिकोणाः सहिताः प्रागादीशाः भवन्ति। क्रियः इत्यस्य अर्थः मेषः, वृषः अर्थात् वृषभराशिः, नृयुक् अर्थात् मिथुनम्, कर्काटकः, एते राशयः त्रिकोणसहिताः प्रागादीशाः भवन्ति। आदिपदेन दक्षिण-पश्चिम-उत्तरदिशानाम् ईशानाम् अपि ग्राह्यम्। सत्रिकोणाः इति शब्देन त्रिकोणसहितम् इति अर्थात् पञ्चमभावानां–नवमभावानाम् अपि ग्राह्यम्। मेषस्य पञ्चमभावः सिंहः वृषभस्य नवमभावः धनुः च भवति। मेषसिंहधनुः प्राग्दिशायाः राशयः भवन्ति। वृषकन्यामकराः दक्षिणदिशायां भवन्ति। मिथुनतुलाकुंभाः पश्चिमायां व्यवस्थिताः। कर्काटकवृश्चिकमीनाः उत्तरस्यां भवन्ति।
प्रयोजनम्-
हृतनष्टादौचौरद्रव्यस्य वा दिग्विज्ञानम्।“
अपि च -
द्रेक्काणसदृशः चोरः लग्नांशसदृशं धनम्।”
यातव्यदिङ्मुखगतस्य सुखेन सिद्धिर्वर्थाश्रमो भवति दिक् प्रतिलोमलग्ने।“
विषमराशौ प्रथमहोरा मार्ताण्डः अर्थात्  सूर्यः भवति, द्वितीया होरा इन्दुः अर्थत् चन्द्रः भवति। समराशौ प्रथमहोरा चन्द्रस्य, द्वितीयहोरा रवेः भवति। होरा शब्देन राशेः अर्धम् उच्यते। राशिः नाम त्रिंशद् अंशकः, होराशब्देन तस्य अर्धं पञ्चदशात्मकः (15) अंशः भवति। अर्थात्  प्रायशः एकघंटात्मकः कालः होराशब्देन उच्यते। तदुक्तं च-
मार्ताण्डेन्द्वोः अयुजि समभे चन्द्रभान्वोश्च होरे। “
अस्य प्रयोजनम्।
सूर्यहोरायां जाताः तेजस्विनः चन्द्रहोरायां जाताः मृदुस्वभावा भवन्ति।“
श्लो-
क्रूरसौम्यः पुरुषवनिते ते चरागद्विदेहाः। प्रागादीशाः क्रियवृषनृयुक्कर्कटाः सत्रिकोणाः।।
मार्ताण्डेन्द्वरयुजि समभे चन्द्रभान्वोश्च होरे। द्रेक्काणाः स्युः स्वभवनसुतत्रित्रिकोणाधिपानाम्।।“
प्रश्नाः
होरायाः प्रयोगः फलितज्योतिषे कुत्र भवति?

ज्योतिर्विद्या-09
 द्रेक्काणविचारः सोदाहरणम्।
द्रेष्काणः राशेः त्रिभागः भवति। द्रेष्काणस्य मानकम् दशांशः भवति। तद्यथा त्रिंशदंशाः/3=दशांशाः (10) भवन्ति। शून्यातः दशमांशं यावत् प्रथमद्रेष्काणः भवति। दशमांशतः विंशति अंशं यावत्, द्वितीयद्रेष्काणः भवति। विंशत्यंशतः त्रिंशदंशं यावत् तृतीयद्रेष्काणः भवति। एवं द्रेष्काणविभाजनं लिखामि। उदाहरणं गुरुस्फुटे 1-1-12’-33’’।  वृषभराशौ प्रथमे अंशे द्वादशकलायां त्रयस्त्रिंशत् विकलायां  गुरुः विद्यते। शून्यतः दशमांशं पर्यन्तं प्रथमद्रेष्काणः वर्तते। प्रथमद्रेष्काणस्य अधिपः ग्रहस्थितराशेः अधिपः भवति। अतः शुक्रः अधिपः भवति।
अत्र ध्यातव्यः तथ्यः-
*     द्रेष्काणः राशेः त्रिभागः भवति ।  क्रमशः ग्रहस्थित राशितः स्व-पञ्चम-नवमभवननाम् अधिपतयः, द्रेष्काणाधिपतयः भवन्ति।

द्रेष्काणानाम् अधिपतिविभागः।
प्रथमद्रेष्काणाधिपतेः अधिपतिः स्वाराश्यधिपतिः भवति। द्वितीयद्रेष्काणाधिपतिः  स्वराशितः पञ्चमभावाधिपतिः भवति। तृतीयद्रेष्काणाधिपः नवमराशेः अधिपः भवति। तदुक्तं यथा-“स्वभवन-सुत-त्रि-त्रिकोणाधिपानां द्रेष्काणाः स्युः।“ प्रथमद्रेष्काणाधिपः स्वभवनाधिपः, द्वितीयद्रेष्काणाधिपः पञ्चमभवनाधिपः, तृतीयद्रेष्काणाधिपः नवमभवनाधिपः भवति। अनेन एवं सिद्धं भवति।तेन मेषस्य प्रथमो द्रेष्काणः भौमस्य, द्वितीयः पञ्चमस्थानसिंहाधिपतेः अर्कस्य, तृतीयो नवम स्थानस्य अधिपतेः गुरुः इति।
वृषभस्य प्रथद्रेष्काणाधिपतिः स्वभवनपतिः शुक्रः, द्वितीयद्रेष्काणाधिपतिः पञ्चमभवनकन्यायाः अधिपः बुधः, तृतीयद्रेष्काणाधिपतिः मकरस्याधिपिः शनिः भवति। एवम् अन्यराशीनाम् अपि ज्ञातव्यम्।
अत्र स्मर्तव्यः अंशः।
*     राशेः त्रिभागः द्रेष्काणः 10 अंशात्मकः भवति। स्वभवन-पञ्चमभवन-नवमभवनाधिपाः क्रमशः द्रेष्काणाधिपाः भवन्ति।

प्रायः एकस्य राशेः उदयात् परं घंटाद्वयात्मककालं परं द्वितीयरेशेः उदयः भवति। 60 (मिनिट् )*2 घंटाः=120 निमेषाः (मिनिट्)/3= 40 निमेषाः(मिनिट्) द्रेष्काणः भवति। एवं समयवशादपि ज्ञातुं शक्यम्।
द्रेष्काणविचारे ग्रन्थकारोक्तिः-
द्रेक्काणाः स्युः स्वभवनसुतत्रित्रिकोणाधिपानाम्।।“
बोधप्रश्नाः ।
1.   कति द्रेष्काणाः भवन्ति?

2.   द्रेष्काणः कति अंशात्मकः भवति?

ज्योतिर्विद्या -10
 द्रेष्काणाविचारे मतान्तरम्।
प्राचीनकाले यवनाचार्याः मययवनमणित्थशक्तिः जीवशर्मा श्रुतकीर्तयः आदयः आचार्याणाम् अभिप्रायं वराहमिहिराचार्यः स्वीये होराशास्त्रे उल्लिखति। तादृशरूपेण केचन आचार्यः होरा-द्रेक्काणयोः मतान्तम् आदिशति। तत्र द्रेक्काणे मतान्तरम् एवं वर्तते, प्रथमद्रेष्काणः राश्यधिपस्य, द्वितीयं द्वादशाधिपतेःतृतीयम् एकादशाराश्याधिपतेः, भवति। वराहमिहिराचार्यः त्रिकोणस्थानानाम् अर्थात् ग्रहस्थितराशिः, ततः पञ्चमराश्यधिपः, ततः नवमराश्यधिपः (1 - 5 - 9) एवं क्रमशः द्रेक्काणपतयः भवन्ति इति अभिप्रैति ।  परम् अत्र तावत् स्व-द्वादश-एकादशराशिपानां नाथाः भवन्ति इति अभिप्रैति। यथा मेषस्य प्रथमो द्रेष्काणाः भौमस्य, द्वितीयो द्वादशाधिपतेः जीवस्य, तृतीयम् एकादशराश्यधिपतेः मकरः सौरस्य भवति। एवमेव अन्येषां राशीनां चिन्तनीयम्।
          ग्रहस्थितराश्यधिपः प्रथमद्रेक्काणाधिपतिः भवति।
          तस्मात् द्वादशराश्याधिपः द्वितीयद्रेक्काणाधिपः भवति।
          एकादशराश्याधिपः तृतीयद्रेक्काणाधिपः भवति।
वराहमिहिराचार्योक्तिः होराशास्त्रे श्लो-
केचित्तु होरां प्रथमां भपस्य वाञ्छन्ति लाभाधिपतेः द्वितीयाम्। द्रेष्काणसंज्ञामपि वर्णयन्ति स्वद्वादशाधिपतेः द्वितीयम्।।“
अन्वयः= केचित्तु प्रथमां होरां भपस्य वाञ्छन्ति। द्रेष्काणसंज्ञामपि स्व-द्वादश-एकादश-राशिपानम् वर्णयन्ति।12
अन्वयार्थः= केचित्तु=यवनेश्वरादयः प्रथमां होरां=राश्यां प्रथमहोराम् भपस्य=राश्यधिपस्य वाञ्छन्ति=इच्छन्ति।। द्रेष्काणसंज्ञामपि=द्रेष्काणविचारम्, द्वादश-एकादशराशिपानम्= द्वादशभावः एकादशभावाधिपं, वर्णयन्ति=वर्णयन्ति।
भावः= प्रथमहोराराश्यधिपस्य, द्वितीयहोरा एकादशाधिपतेः होरा द्वितीयत्वेन केचन दैवज्ञाः प्रायः यवनाचार्यः अभिप्रयन्ति। प्रथमद्रेष्काणधिपः राश्यधिपः भवति। द्वितीयद्रेष्काणाधिपः द्वादशाधिपतेः, तृतीयद्रेष्काणाधिपतिः द्वितीयाधिपतेः भवति।
प्रश्नाः।
1.       सर्पद्रेक्काणः कः भवति?
2.       स्त्रीद्रेष्कणः कः भवति?
3.       खरद्रेष्काणः कः भवति?

ज्योतिर्विद्या -11
ग्रहाणाम् उच्चस्थानानि ।
ग्रहाणाम् उच्चनीचविभागमाह।
आदौ उच्चं नाम किम्? इति ज्ञातव्यम्। ग्रहाः सूर्यं परितः भ्रमन्ति। जनाः पृथिव्यां स्थित्वा परिवीक्षयन्ति। अनेन सामान्यतया ग्रहाः भुवं परितः भ्रमन्ति इति जनाः भ्रान्तिमनुभवन्ति। परन्तु ग्रहाः सूर्यं परितः भ्रमन्ति। भूमौ स्थित्वा ग्रहाणां वेधः कुर्मः। एवं सति, भुवः अपेक्षया अत्यन्तदूरतमः ग्रहस्थानप्रदेशः एव उच्चमिति सिद्धान्तज्योतिषग्रन्थेषु मन्यन्ते। उच्चस्थानस्य परिभाषा-
यो हि प्रदेशो अपमण्डलस्य दूरे भुवस्तस्य कुतोच्चसंज्ञा।
सोऽपि प्रदेश्चलतीव तस्मात् प्रकल्पिता तुङ्गातिर्गातिज्ञैः।।“
उच्चं हि ग्रहभ्रमणवृत्तस्य भुवः अपेक्षया दूरतरः प्रदेशः। तथा- तस्मात् भार्धे 180 अंशे परिमिते नीचं, तदुभुवो निकटवर्तीति कथितम्। तद्यथा- “उच्चस्थितो व्योमचरः सुदूरे नीचस्थितःस्यान्निकटे धरित्र्या“ इति भास्करोक्तेः वशात्।
 राशीनां ग्रहवशेन विशेषविचारमुच्यते। रव्यादीनाम् सप्तग्रहाणाम् उच्चस्थानानि क्रमशः अग्रे कथ्यते। रवेः मेषः, चन्द्रस्य वृषभःकुजस्य मकरः, बुधस्य कन्यायाम्, गुरोः कर्काटकः, शुक्रस्य मीनः, शनेः कुम्भः, एवम् उच्चस्थानानि भवन्ति। एषु सप्तराशिषु परमोच्चस्थाने अंशानि च कथितानि। तद्यथा -  रविः मेषराशौ दशभिः अंशैः उच्चस्थानं भवति। वृषभराशौ तृतीये अंशे चन्द्रः उच्चस्थः भवति। मकरराशौ अष्टाविंशतितमे अंशे कुजः उच्चस्थानकः भवति। कन्याराशौ पञ्चदशे अंशे बुधः उच्चस्थः भवति। कर्कराशौ पञ्चमे अंशे गुरुः उच्चस्थानीयकं भवति। मीनराशौ सप्तविंशतितमे अंशे शुक्रः उच्चस्थानीयकः भवति। तुलाराशौ विंशतितमे अंशे शनेः उच्चांशकं भवति।        
अत्र ज्ञातव्यः तथ्याः -
  मेष-वृषभ-मकर-कन्या-कर्क-मीन-वणिक्-आदीनां क्रमशः दश-त्रीणि-अष्टाविंशति-पञ्चदश-पञ्च-सप्तविंशति-विंशतयः अंशाः रव्यादि ग्रहाणां परमोच्चांशकाः भवन्ति।
  उच्चस्थानात् सप्तमभावः नीचराशिः भवति। रविः मेषराशौ दशमे अंशे उच्चः ततः सप्तमराशिः तुलायां दशमे अंशे नीचस्थानं भवति। एवं चन्द्रः वृश्चिकराशौ तृतीये अंशे, बुधः मीनराशौ विंशतितमे अंशे, गुरुः मकरराशौ पञ्चमे अंशे, शुक्रः कन्यायां सप्तविंशतितमे अंशे ग्रहाणां नीचस्थानानि भवन्ति।
प्रश्नाः
1.       उच्चे एवं नीचे ग्रहाणां गतिषु व्यात्यासः भवति किम्?
2.       उच्चस्थानं परिवर्तनम् भवति किम्?

ज्योतिर्विद्या~ 11
वर्गोत्तमनवांशाः।
स्फुटफलप्रवचनाय नैकाः समाग्र्यः ज्योतिश्शास्त्रे उपयुज्यन्ते। तेषु वर्गोत्तमनवांशोऽपि अन्यतमः। वर्गेषु उत्तमाः वर्गेत्तमाः भवन्ति। चरगृहादिषु; चर-स्थिर-द्विस्वभावादिराशिषु इत्यर्थः। पूर्वमध्यपर्यन्ततः प्रथम-मध्यम(पञ्चम)-अन्तिमाः(नवमः) नवांशाः वर्गोत्तमनवांशाः भवन्ति। तत्रादौ चरगृहाणि कानि इति? तस्मात् मेष-कर्क-तुला-मकराः एते चरगृहाणि भवन्ति। एषु चरगृहेषु प्रथमनवांशः वर्गोत्तमनवांशः भवति। वृष-सिंह-वृश्चिक-कुंभा एते स्थिरराशयः भवन्ति। एषु राशिषु पञ्चमनवांशः वर्गोत्तमनवांशः भवति। मिथुन-कन्या-तुला-धन्विनः एषु राशिषु अन्तिमनवांशः अर्थात् (नवमनवांशः) वर्गोत्तमनवांशः भवति। वर्गोत्तमनवांशे राशिकुण्डल्यां ग्रहस्थानं यत्र भवति, तत्रैव नवांशकुण्डल्याम् अपि भवति। यथा कर्क-मकरादि चराराशिषु प्रथमनवांशः ग्रहस्थितस्थानात् एव प्रारम्भं भवति। वृषभ-सिंह-कुम्भाः एते सर्वे राशयः स्थिरराशयः भवन्ति। वृषभराशेः मकरात् नवांशगणनारम्भः। अनेन पञ्चमनवांशः मकरात् पञ्चमराशिः वृष एव भवति। तस्मात् नवांशाधिपः, ग्रहस्थितराश्यधिपः एक एव जायते अतः वर्गोत्तमः भवति। एवं सिंहराशेः मेषात् नवांशगणनारम्भः भवति। मेषात् पञ्चमस्थानं सिंहः भवति। तस्मात् नवांशाधिपः, ग्रहस्थितराश्यधिप एक एव जायते अतः वर्गोत्तमः भवति। इतरत्र गणनावशात् ज्ञातव्यः।
उभयराशिषु नवमनवांशः वर्गोत्तमः भवन्ति। मिथुनराशिः उभयराशिः। मिथुनराशेः तुलातः नवांशगणनारम्भः भवति। तुलातः नवमोनवांशः मिथुनो भवति।तस्मात् नवांशाधिपः, ग्रहस्थितराश्यधिपः एकः एव जायते अतः वर्गोत्तमः भवति। अत्र स्मर्तव्यः अंशाः-
          वर्गे उत्तमाः वर्गोत्तमाः भवन्ति। राशिकुण्डल्यां ग्रहः यत्र स्थितः नवांशकुण्डलायां ग्रहः तत्रैव स्थिते  सः वर्गोत्तमः भवति। तदुक्तं यवनेश्वरेण-
स्वे स्वे गृहेषु गृहांशका ये वर्गोत्तमास्ते यवनैर्निरुक्ता।”
          चर-स्थिर-द्विस्वभावादिराशिषु पूर्वमध्यपर्यन्ततः प्रथम-मध्यम(पञ्चम)-अन्तिमाः(नवमः) वर्गोत्तमनवांशाः इत्युच्यन्ते।
ग्रहस्य तेषु राशिषु तत्राशिसंख्या समाना नवांशराशिसंख्या विद्यते चेत् ग्रहः वर्गोत्तमनवांशे वर्तते इति निर्णयः।
अस्य प्रयोजनम्-
वर्गोत्तमाप्रदिष्टाः तेषु इह जाताः कुले मुख्याः।”

ज्योतिर्विद्या~ 12
मूलत्रिकोणस्थानानि  ।
सिंहादिराशीनां यथाक्रमेण सूर्यादीनां ग्रहाणां त्रिकोणभवनानि मूलत्रिकोणभवनानि भवन्ति। 📐
   सिंह-वृष-प्रथम-षष्ठ-हयाङ्ग-तौली-कुम्भाः क्रमेण सूर्यादीनां त्रिकोणभवनानि अर्थात् मूलत्रिकोणराशयः भवन्ति। सिंहः आदित्यस्य मूलत्रिकोणसंज्ञः भवति। वृषः चन्द्रस्य मूलत्रिकोणसंज्ञा भवति। प्रथमः अर्थात् मेषराशिः कुजस्य मूलत्रिकोणसंज्ञा भवति। षष्ठः अर्थात् कन्याराशौ बुधस्य मूलत्रिकोणस्थानं भवति। गुरोः धनुराशौ मूलत्रिकोणस्थानं भवति। शुक्रस्य तुला मूलत्रिकोणस्थानं भवति। सौरस्य कुम्भराशिः मूलत्रिकोणसंज्ञा भवति। अत्र विशेषः चन्द्रं विहाय अन्येषां ग्रहाणां स्वस्थानेषु एव मूलत्रिकोणस्थानं भवति।
  सिंह-वृष-प्रथम-षष्ठ-हयाङ्ग-तौली-कुम्भाः क्रमेण सूर्यादीनां  त्रिकोणभवनानि मूलत्रिकोणराशयः भवन्ति।
प्रयोजनम्-त्रिकोणस्थाने त्रयः अधिकग्रहाः बलवत्तराः सति नरेन्द्राः भवन्ति।👑
उच्चस्वत्रिकोणगैबलस्थैस्त्र्याद्यैभूपतिवंशजाः नरेन्द्राः।“
प्राचीनकालेषु जलयन्त्रवशात् छायायन्त्रवशात् वा स्पष्टग्रहस्फुटं जानन्ति स्म। साम्प्रतमस्मिन् युगे सङ्गणकादीनां वशात् लग्नस्फुटं ग्रहाणां स्पष्टग्रहस्फुटम् ज्ञातुम् शक्यते। एवं लग्नस्फुटं सम्यग् ज्ञात्वा फलादेशयै लग्नादि द्वादशभावानां संज्ञाः कथिताः। ताः संज्ञाः लग्नाधारेण चिन्त्याः। होरादयः अर्थात् लग्नादयः, द्वादशभावाः तनु-कुटुम्ब-सहोत्थ-बन्धु-पुत्र-अरि-पत्नि-मरणानि-शुभ-आस्पद-आया-रिःफाख्यानां भवन्ति। लग्नस्य तनुः, द्वितीयभावस्य कुटुम्बम्, तृतीयभावस्य सहोदरः इति, चतुर्थभवास्य बन्धुः, पञ्चमभावस्य पुत्रः, षष्ठभावस्य शत्रुः, सप्तमभावस्य पत्नी, अष्टमभावस्य मृत्युः, नवमभावस्य शुभः इति संज्ञाः भवन्ति। दशमभावस्य कर्मः, एकादशभावस्य आयः, द्वादशभावस्य रिःफं, व्ययम् वा, चेति संज्ञाः भवन्ति। एते संज्ञाधारेण भावीफलानि चिन्त्यानि भवन्ति।
अरिकर्मलाभादुश्चिक्यसंज्ञितगृहाणि  उपचयानि भवन्ति। लग्नात् तृतीय-षष्ठ-दशम-एकादशभावाः उपचयभावाः इति संज्ञायुक्ताः भवन्ति।
श्लोकः -
होरादयस्तनुकुटुम्बसहोत्थबन्धुपुत्रारिपत्नीमरणानि शुभाऽस्पदायाः ।
रिःफाख्यमित्युपचयान्यरिकर्मलाभदुश्चिक्यसंज्ञितगृहाणि च न नित्यमेके।।(वसन्ततिलका)

ज्योतिर्विद्या 13
लग्नादिभावानां संज्ञाः ।
प्रागुक्तवत् द्वादशभावानां द्वादशसंज्ञाः कथिताः। लोकव्यवहारार्थं प्रागुक्तद्वादशभावानां पर्यायाः कथिताः। लग्नं कल्पमिति ज्ञेयम्। कल्पः अर्थात् तनुः लग्नात् चिन्त्यम्। लग्नं कल्पाख्यम्। कल्पः शक्तिवाची। द्वितीयभवनात्  स्वम् अर्थात् विद्या, सम्पत्, धनम् इत्यादि चिन्तनीयम् । तृतीयभवनात्  विक्रमं चिन्तनीयम्। चतुर्थभवनात् गृहं चिन्तनीयम्। पञ्चम भवनात् प्रतिभा, विद्या, सन्तानः, उत्तराधिकारी, इत्यादिविचारान् विचिन्तयेत्। षष्ठभावेन शत्रुः क्षतिः इत्यादि चिन्तयेत्। सप्तमभावेन चित्तोत्था, इष्टं, शयनं, सुखञ्च चिन्तनीयम्। अष्टमभावेन रन्ध्रः, मरणं, मृत्युः, चिन्तनीयम्। नवमभावेन गुरुः, शुभम् इत्यादि विचिन्तयेत्। दशमभावेन मानः, कर्म, आजीविकाविचारं चिन्तनीयम्। एकादशभावेन भवः प्राप्तिः चिन्तनीया। द्वादशभावेन व्ययः गतजन्मविचाराः चिन्तनीयाः। अत्र स्मर्तव्यः तथ्यः-
  कल्प-स्व-विक्रम-गृह-प्रतिभा-क्षतानि चित्तोत्थ-रन्ध्र-गुरु-मान-भव-व्ययानि इति लग्नादिद्वादशभावानां संज्ञान्तराणि कथितानि।
 लग्नात् चतुर्थनिधने “चतुरस्र” संज्ञे भवतः। सप्तमं गृहं द्यूनम् इति कथ्यते। दशमर्क्षम् आज्ञा इति कथ्यते। लग्नात् चतुर्थभवनम्, निधनभवनम् अर्थात् अष्टमभवनम् अनयोः चतुरस्रम् इति कथ्यते। सप्तमभवनम् द्यूनम् इति संज्ञा भवन्ति। दशमगृहम् आज्ञा इति संज्ञा भवन्ति।
कल्पस्वविक्रमगृहप्रतिभाक्षतानि चित्तोत्थरन्ध्रगुरुमानभवव्ययानि ।
लग्नात् चतुर्थनिधने चतुरस्रसंज्ञे द्यूनं च सप्तमगृहं दशमर्क्षमाज्ञा।(वसन्ततिलका)”

प्रश्नाः
चतुरस्रे पापग्रहाः भवन्ति चेत् किम् फलम्?
दशमभावस्य किमर्थम् आज्ञा इति कथ्यते?

ज्योतिर्विद्या 14
उपचयभावाः ।
अरिकर्मलाभाः दुश्चिक्यसंज्ञितगृहाणि उपचयानि भवन्ति। लग्नात् तृतीय-षष्ठ-दशम-एकादश-भावाः “उपचयभावाः” इति संज्ञायुक्ताः भावाः भवन्ति। इतरभावाः अपचयभावाः इति कथ्यन्ते। एते उपचयस्थानानि न नित्यानि इति एके (केचन) आचार्याः अभिप्रैयन्ति।  उपचयस्थानम् अनित्यम् इति न वराहमिहिराचार्येणाभिप्रेतं मतम्। तच्च अनित्यम् इति वचनम्-
अथोपचयसंज्ञाः स्यात् त्रिलाभरिपुकर्मणाम्। न चेत् भवन्ति ते दुष्टाः पापैः स्वस्वामिशत्रुभिः।।“
अत्र स्मर्तव्याः अंशाः-
          लग्नात् तृतीय-षष्ठ-दशम-एकादश-भावाः “उपचयभावाः” इति संज्ञायुक्ताः भावाः भवन्ति।
          एते भावाः न नित्यम् इति एके केचन दैवज्ञाः वदन्ति। एते भावाः पापग्रहैः स्व स्वामिशत्रुभिः दृष्टाः चेत् उपचययत्वं परित्यजन्ति इति केचन दैवज्ञानाम् आशयः एतन्मतं वराहमिहिराचार्यस्य नाभिप्रेतम्।
प्रश्नः
उपचयः शब्दस्य अर्थः कः?
उपचयभवने के ग्रहाः शुभानि फलानि यच्छन्ति?
ज्योतिषं पठितमच्छति  किम्?

ज्योतिर्विद्या 15
संज्ञाविशेषाः ।
राशिचक्रस्य पूर्वक्षितिजे लग्नं भवति। सप्तमगृहं पश्चिमस्यां दिशि भवति। दशमभवनं खमध्ये भवति। एवं संज्ञा विशेषाः भवन्ति। एवं विद्यमाने राशिचक्रमाधृत्य संज्ञाः कथिताः।  ताः विव्रीयन्ते। लग्नात् चतुर्थनिधने “चतुरस्र” संज्ञा भवति। सप्तमं गृहं द्यूनमिति कथ्यते। दशमर्क्षम् आज्ञा इति कथ्यते। लग्नात् चतुर्थभवनं, निधनभवनम् अर्थात् अष्टमभवनम् अनयोः चतुरस्रम् इति कथ्यते। सप्तमभवनाय द्यूनम् इति संज्ञा भवति। दशमगृहाय आज्ञा इति संज्ञा भवति।
3.5.    कण्टकादिसंज्ञाः तत् राशिबलञ्च।
केन्द्रादिभावानां संज्ञानि वर्तन्ते। तानि अग्रे विव्रीयन्ते। कण्टक-केन्द्र-चतुष्टयाः इति केन्द्रस्थानस्य संज्ञाः भवन्ति। सप्तम-लग्न-चतुर्थ-खभानाम् अर्थात् प्रथमभावः ततः चतुर्थभावः सप्तमभावः दशमभावानाम् एवं केन्द्रसंज्ञाः भवन्ति। लग्नभावः चतुर्थभावः सप्तमभावः दशमभावः कण्टकम् प्रथमा संज्ञा, केन्द्रम् इति द्वितीया संज्ञा, चतुष्टयम् इति तृतीयासंज्ञा एवं तिस्रः संज्ञाः भवन्ति। लग्ने नृराशयः बलिनः भवन्ति। चतुर्थभवने जलचरराशयः, सप्तमभवने कीटराशिः, दशमभवने चतुष्पादराशयः बलिष्ठाः भवन्ति। लग्ने नरराशयः मिथुन-कन्या-तुला-धनु-पूर्वार्ध-कुम्भाः बलिनः भवन्ति। चतुर्थजलचराः कर्कटकः, मकरराशेः अपरार्धः, मीनः च बलिनः भवन्ति। सप्तमे कीटराशिः वृश्चिकः बलाढ्यः भवति। दशमे मेषवृषसिंहधनुपरार्धमकरपूर्वार्धाः बलिनः भवन्ति। ख शब्दस्यार्थः आकाशम्। तदुक्तम् अमरकारेण “नभोऽन्तरिक्षं गगनम् अनन्तम् सुरवर्त्मखम्”। अतः ख शब्दः दशमभावं द्योतयति। अतः ख शब्देन आकाशे तत्काले विद्यमानराशिः ज्ञायते। अनेन खशब्देन उदयलग्नात् दशमभावं चिन्तितः।
प्रश्नाः
1.       चतुर्थाष्टमयोः चतुरस्रं (square) भवति। कथम्?
2.       लग्ने नृराशयः बलिनः भवन्ति। इदं कालबलम् उत दिग्बलम्  ?
3.       आकाशः समयः दिशा एषां त्रयाणां कः सम्बन्धः?
4.       फलितज्योतिषे दशमलग्नस्य विशेषमहत्त्वम् अस्ति। दशमलग्नसाधनम् कथम्?
5.       केचनप्राणिनः रात्रौ बलिनः। केचन प्राणिनः दिवाबलिनः। किमर्थम्?
अत्र सूर्यचन्द्रौ एव कारणीभूतः। कथम्?

 ज्योतिर्विद्या-16
भावानां पणफरत्रिकोण संज्ञाविशेषाः।
लग्नात् केन्द्रस्थानानि कथितानि। केन्द्रस्थानात् परं विद्यमानक्षेत्राणां संज्ञान् आचार्यः वक्ष्यति। केन्द्रात् परं द्वितीयस्थानं पणफरं, तस्मात् परतश्च सर्वम् आपोक्लीमस्थानं भवति। लग्नात् द्वितीयभावः, पञ्चमभावः, अष्टमभावः, एकादशभावः एते भावाः पणफरस्थानानि भवन्ति। लग्नात् तृतीयभावः, षष्ठभावः, नवमभावः, द्वादशभावः च एते भावः आपोक्लीमस्थानानि भवन्ति। मेषूरणं दशमस्थानस्य संज्ञा भवति। अत्र अस्मिन् दशमे स्थाने कर्म इति अपरासंज्ञा विद्यात्। हिबुकम्, अम्बु, सुखम्इति चतुर्थभावस्य संज्ञाः भवन्ति। उदयलग्नात् सप्तमस्थानम् अस्तम् इति उच्यते । सप्तमभवनस्य जामित्रम् अस्तभवनम् इत्यपि संज्ञाः वर्तन्ते। पञ्चमभावः सुतः, त्रिकोणसंज्ञा च भवतः। अत्रस्मर्तव्याः अंशाः-
          केन्द्रात् द्वितीयस्थानं पणफरस्थानं भवति। पणफरस्थानात् द्वितीयस्थानम् आपोक्लीमस्थानं भवति।
          हिबुकम् अम्बु सुखं च चतुर्थभवनस्य संज्ञाः भवन्ति। अस्तभवनं, जामित्रम् इति सप्तमस्थानस्य पर्यायपदानि भवन्ति।   सुतः त्रिकोणम्  इति पञ्चमभवनस्य संज्ञाः भवति। दशमस्थानस्य कर्मसंज्ञा भवति।

ज्योतिर्विद्या ~17
होराबलम् ।
लग्नाधिपतिना, गुरुणा, बुधेन, स्वराशायधिपेन वा वीक्षितः संयुताभावः वीर्योत्कटः अर्थात् बलवतः भवति। नान्यैः अर्थात् अन्यग्रहैः वीक्षिता युता वा न वीर्योत्कटः भवति। अन्यग्रहैः नाम केभिः? इति पूर्वपक्षः। तदुच्यते, होरास्वामिः (लग्नाधिपः) गुरुः, बुधः एभिः वर्जितैः  इतरग्रहैः इति।  गुरुबुधलग्नाधिपेन युतः दृष्टः वा भावः बलवत्तरः इति सुस्थापितः सिद्धान्तः। अस्य विपरीतेन अन्येन ग्रहेण दृष्टे संयुते बलवत्तरं न भवति, अर्थात् बलहीनं भवति इति अभावसिद्धान्तः। अनेन सिद्धं भवति यत् क्वचित् सन्दर्भेषु मिश्रिते अर्थात् गुरुबुधलग्नाधिपतिषु अन्यतमेषु यः कश्चित् दृष्टः युतः वा अपि च इतरग्रहाणां संयुतः दृष्टः वा सति मध्यमबलम् इति ज्ञातव्यम्। एवं ग्रहाणां बलम् अनुपातेन ज्ञातव्यमिति लक्ष्यार्थः। यदि यः कश्चित् भावः येनकेनापि ग्रहेणः दृष्टः युतः वा न तर्हि किम् ? इति प्रश्नः स्वरूपे, तादृशः निर्बलः भावः भवति। तदुक्तं च आचार्याबादरायणेन -
जीवस्वनाथशशिजैयुतदृष्टा बलवति भवति होता।
मैषैर्बलहीना स्यात् एवं मिश्रैस्तु मध्यबला। बलहीना यदि सर्वै न वीक्षिता नैव युक्ता वा।“ तथा चोक्तं प्रश्नमार्गकारेण –
यो यो भावः स्वामिदृष्टोयुतो वा। सौम्यैः वा स्यात्तस्या तस्याप्तिवृद्धिः।
पापैरेवं तस्य भावस्यहानिः। विज्ञातव्यो प्रश्नते जन्मतो वा।।“
यः भवः, भावस्वामिना दृष्टः सः भावः बलवत्तरं भवति। यः भावः भावस्वामिना युतः सः भावः बलवत्तरः भवति। यस्मिन् भावे शुभग्रहाः भवन्ति, तस्मिन् भावस्य वृद्धिः भवति। पापैः तस्य भावस्य हानिः भवति। प्रश्नतः जन्मलग्नतः वा ज्ञातव्यः भवति। अस्मिन् सन्दर्भे भवतः स्मर्तव्याः अंशाः-
*     यः भावः होरास्वामिना वीक्षिता सः भावः वीर्योत्कटः भवति। तथा एव यदि लग्नपतिना संयुता भावः तर्हि बलवत्तरः भवति।

*     यः भावः गुरुणा बुधेन दृष्टः वीक्षिता स्यात् संयुता वा स्यात् सः भावः बलवत्तरः भवति।
प्रश्नाः
सप्तवर्गजबलम् नाम किम् भवति?
दृष्टिबलम् कथं भवति?
 इतोपि अध्येतुम् इच्छति किम्?
जीवने परिवर्तनाय ज्योतिषाध्ययनम् कुर्वन्तु।

ज्योतिर्विद्या~18
राशीनां प्रमाणम्।
राशीनां पूर्वचक्रम् अपरचक्रम् चेति चक्रद्वयं वर्तते। मेषादितः षड्राशयः पूर्वार्धराशयः भवन्ति। तुलादितः षड्राशयः अपरार्धराशयः भवन्ति। मेषादीतः मीनान्तं यावत् राशीनां बलगणनाक्रमः अत्र प्रस्तूयते। अत्र भूतसंख्यावशात् संख्याविचारः वर्णितः। यथा पञ्चेन्द्रयाणि पञ्चविषयाणां द्योतकानि भवन्ति। विषयशब्दस्यार्थः पञ्च इति अवगन्तव्यम्। राशिचक्रस्य पूर्वार्धे अर्थात् मेषादयः षड्राशयः भवन्ति।  विषयादयः पञ्चप्रभृतयः 5, 6, 7, 8, 9, 10 कृतगुणाः चतुर्भिर्गुणिताः पूर्वार्धे(राशिचक्रस्य पूर्वार्धे) मेषादिषड्राशिषु मानं प्रमाणं भवति। तदेव प्रतीपम् अर्थात् विलोमेन सितं तुलादीनां षण्णां राशीनां प्रमाणानि भवन्ति।
तुला, वृश्चिकः, धनुः, मकरः, कुम्भः, मीनः च इति राशिचक्रस्य अपरार्धस्थिताः षड्राराशयः भवन्ति। राशिचक्रस्य अपरार्धस्थितानां ग्रहाणां प्रगुक्तक्रमात् विपरीतेन अर्थात् 10, 9, 8, 7, 6, 5 इति संख्यानां चतुर्थसंख्यया गुणना करणीयम्। तदानीं राशेः प्रमाणानि प्राप्स्यन्ते। तानि, तुलायाः 10*4=40, वृश्चिकस्य 9*4=36, धनुषः 8*4=32  मकरस्य 7*4=28, कुम्भस्य 6*4=24, मीनस्य 5*4=20, एवं क्रमशः प्रमाणानि भवन्ति।
अत्र स्मर्तव्ये अंशे ।
          विंशतिः चतुर्योजिते, आरभ्य मेषादि राशिप्रमाणानि भवन्ति। यथा मेषस्य विंशतिः,वृषभस्य चतुर्विंशति इयादि। पुनः तुलादिषड्राशीनां प्रमाणानि , चत्वारिंशत् तः  चतुर्न्यूनीकृते भवति।
          विंशतिः,चतुर्विंशतिः, अष्टाविंशतिः, द्वात्रिंशत्, षड्त्रिंशत्चत्वारिंशत् इति मेषादीनां षड्राशीनां राशिप्रमाणानि भवन्ति।
प्रश्नाः
प्रत्येकोपि राशिः त्रिंशद् अंशः भवति । परन्तु राशिप्रमाणं किमर्थम् व्यत्यासःभवति?

ज्योतिर्विद्या ~19
राशीनां वर्णः ।

          दैवज्ञेन सुस्पष्टफलनिर्देशनाय निर्दोषत्वेन फलप्रवचनाय अनेकाः सामग्र्यः अपेक्षन्ते तेषु राशीनां वर्णविचारोऽपि अन्यतमः। द्वादशराशीनां कारकवर्णाः कथिताः। ते लिख्यन्ते। मेषः रक्तवर्णः अर्थात् लोहितवर्णः, वृषः शुक्लवर्णः अर्थात् श्वेतवर्णः, मिथुनः शुकतनुः अर्थात् हरितवर्णः, कर्काटकः पाटलपुष्पवर्णः अर्थात् ईशत् कृष्णरक्तः इत्यर्थः, सिंहः धूम्रपाण्डुरः अर्थात् ईषत् शुक्लः, कन्या चित्रावर्णः नानवर्णाः इत्यर्थः, तुला कृष्णवर्णः, वृश्चिकः कनकसदृशः अर्थात् सुवर्णवर्णः, धन्वीपिङ्गलः पीतवर्णः मकरः कर्बुरः शुक्लकपिलव्यामिश्रवर्णः, कुम्भो बभ्रुः अर्थात् नकुलवर्णसदृशः, मीनः स्ववर्णः मत्स्यवर्णः इत्यर्थः।
रक्तः श्वेतः शुकतनुनिभः पाटलो धूम्रपांडुः। चित्रः कृष्णः कनकसदृशः पिङ्गलः कर्बुरश्च।
बभ्रुः स्वच्छः प्रथमभवनाद्येषु वर्णाः  प्लवत्वम्। स्वाम्याशाख्यं दिनकरयुताद्भाद्द्वितीयं च वेशिः । ।(मं क्रां)१
प्रश्नः
 मीनस्य वर्णः कः?
मीनराशेः वर्णः कः?
प्राचीनकाले वर्णानाम् उत्पत्तिः कथं कुर्वन्ति स्म?
समुद्रान्तर्गत मन्दिरेषु अपि नीलवर्णस्य विष्णुमूर्तिः प्राप्तः। आधुनिकवर्णानि शीघ्रमेव नष्टानि भवन्ति। तर्हि वर्णनिर्माणं कथं क्रियते?
गुरुवायूर मन्दिरभित्तौ कदा चित्रितानि वर्णानि सन्ति?
प्रयोजनम्- इतरप्राणीनां जन्मज्ञाने लग्नांशकेन फलकथने उपयोगः भवति।

कदाचित् यस्मिन् कस्मिन्श्चित् प्राणिनः जातकं दैवज्ञं दर्शयतु। तस्य फलप्रवचनं शृणोतु।

ज्योतिर्विद्या - 20
कालपुरुषस्य आत्मादिविभागः।
अध्यायेऽस्मिन् ग्रहाणां नामस्वरूपादिकं वर्ण्यते। विश्वस्मिन् विश्वे दृश्यमानचराचरजगत्सर्वं कालपुरुषेण प्रभावितः वर्तते । तदुक्तं यथा-“कालः पचति भूतानि। कालः संहरति प्रजाः। कालः सुप्तेषु जागर्ति। कालो हि दुरतिक्रमः।।“ चराचरमिदं ग्रहमयं जगत् कालपुरषस्य अङ्गः भवति। कालपुरुषस्य अङ्गविभागः, यथा मेषादि द्वादशराशिषु दर्शितः तथा एव रव्यादिग्रहाणाम् अपि प्रदर्शितं वर्तते। राशिस्वामिनः ग्रहाः एव भवन्ति। अतः ग्रहाः एवं कालपुरुषः अनयोः सम्बन्धः वर्तते एव। आदौ कालपुरुषस्य ग्रहाणां सम्बन्धः विव्रीयते।
कालपुरुषस्य आत्मा सूर्यः, चन्द्रः मनः, सत्वं कुजः, बुधः वचं, गुरुः ज्ञानसुखे, शुक्रः कामं, शनिः दुःखं भवति।
 अत्र सत्वं नाम किम्? इति जिज्ञासिते सत्वस्य  लक्षणं लिख्यते-“अधिकारकरं सत्त्वं वासनाभ्युदयागमे”। तदुच्यते- सत्वशब्दः शौर्यपर्यायः वर्तते। सिंहादीनां सहजपराक्रमः वर्तते। तादृक्-सहजपराक्रमं सत्वशब्देन मन्यते। तत्तु कुजेन चिन्त्यते।  ज्ञानसुखे इति द्वन्द्वसमासःज्ञानं च सुखे च ज्ञानसुखे इति विग्रहः। कालपुरुषस्य ज्ञानसुखे बृहस्पतिः भवति। शुक्रः, कालपुरुषस्य मदनः अर्थात् कामः भवति। सङ्गीतसाहित्यादि ज्ञानं शुक्रस्य, वेदशास्त्रादि ज्ञानं जीवसुखमपि च गुरोः कारकत्वं भवति। सुखं द्विविधं, तच्च  सात्विकः राजसिकः इति। सात्विकसुखं गुरोः कारकत्वं भवति। राजसिकसुखं शुक्रस्य कारकं भवति। दुःखं शनेः कारकत्वं भवति। दुःखं कीदृशम्? उक्तः यथा- शव-आशौच-दीक्षा-बन्धु-नाश-व्याधि-मरणादयोः चिन्तनीयाः।
कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो ।
जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।“
अत्र स्मर्तव्यः अंशः -
          आत्मा-मन-सत्वं-वच-ज्ञानसुखे-मदन-दुखं कालपुरुषस्य अङ्गानि, एतेषां क्रमेण रव्यादिग्रहाः कारकाः भवन्ति। तच्च कोष्टके लिखितः।-
आत्मादिभूतेषु ग्रहेषु बलवत्सु जातस्य पुरुषस्य आत्मादयः कारकाः अपि बलिनः भवन्ति। दुर्बलेषु ग्रहेषु जातस्य आत्मादि कारकाः दुर्बलाः भवन्ति। आत्मादीनां ग्रहाणां च अन्योन्यसम्बन्धः वर्तते इति ज्ञातव्यम्। सर्वेन्द्रियेषु मनः एव प्राधान्यं भवति। अतः मनोबलस्य चन्द्रेण सह अन्योन्यसम्बन्धः वर्तते। यदि चन्द्रः बली तर्हि मनसः बलत्वं भवति। अतः सिद्धं यत् ग्रहेषु चन्द्रबलत्वस्य प्राधान्यमिति। मनोबलेन विना इतरकारकाणां बलवत्वे फलं न भवति। अतः चन्द्रबलप्राधान्यमुच्यते। तच्च उक्तं यथा-
अमृतकिरणवीर्याद्वीर्यमाश्रित्य सर्वे विदधाति फलमेते खेचराः साध्वसाधु।
निजनिजविषयेषु व्याप्रियन्ते यथामून्लहमिह मनसैवाधिष्ठितानीन्द्रियाणि।“
एतदुक्तं वराहमिहिराचार्येण बृहत्संहितायां यथा-
आत्मा सहैति मनसा मनइन्द्रियेण। स्वर्थेन चेन्द्रियगणः एवमेषः।
योगोऽयमेव मनसः किमगम्यस्ति। यस्मिन् मनो व्रजति तत्र गतोऽयमात्मा।।“
इति संहितावचनेन आत्ममनसोः अन्योन्यश्रयत्वात्  एकस्य बलवशाद् इतरस्य बलसिद्धिः।
प्रयोजनम्- जातके प्रश्ने वा, पीडितग्रहे देहतः अपि तदङ्गभावात्मगुणपीडनं वक्तव्यं भवति। बलिष्ठग्रहे पुष्टिः वदेत्। तच्च लघुजातके-
आत्मादयो गगनतरौः बलिभिः बलवत्तराः। दुर्बलैः दुर्बला ज्ञेया विपरीतं शनेः स्मृतम्।।“
शनेः विशेषता वर्तन्ते। शनिः बलवते दुखं न्यूनम् । शनिः दुर्बले दुःखादिक्यम् एवं विपरीतक्रमेण चिन्तनीयम्।

ज्योतिर्विद्या-22
ग्रहाणां राजादिविभागः।
निर्मले नीले गगने दिने रवेः प्रकाशेन उत्सहः चैतन्यश्च वर्धते। तेनैव कारणेन जगतः सृष्टि-स्थिति-लयाः भवन्ति। आधुनिकविज्ञानमपि रवेः किरणस्य अपरिमितशक्तिम् आमनन्ति। वेदेषु उक्तं यथा “आदित्यात् भूमिर्जायते। आदित्यात् वायुर्जायते। ...असावादित्यो ब्रह्मा।“  इति।  आदित्यः ग्रहाणां नक्षात्राणां च राजा भवति। आदित्यमिव अन्यः यः ग्रहः अपि अस्मान् अत्यन्तं प्रभावयति सः एव चन्द्रः। पूर्णिमातिथौ नीलगगने आकाशे वीक्षिते अस्मान् चन्द्रः अत्यन्तं तोषयति। सः चन्द्रः मनसि आह्लादः जनयति। दिवायां सूर्यकिरणेन प्राणशक्तिः प्राप्स्यते। निशि चन्द्रप्रतिफलित-किरणेन मनसः आनन्दो जायते। चन्दयति आह्लादयति चन्दति दीप्यते इति वा चन्द्रः इति भवति। चन्द्रः रात्रौ ग्रहाणां राजा भवति।  अनन्तनक्षत्रेषु ग्रहेषु वा रविचन्द्रौ एव प्रकाशकौ खलु? अतः रविचन्द्रौ राजनौ एव।  अतः उच्यते रविचन्द्रौ राजनौ इति। ततः अग्रे सत्वविचारे लिख्यते। वने विद्यमानसिंहस्य पराक्रमादयो गुणाः सहजतया प्राप्ताः सन्ति। तादृशविक्रमशौर्यपराक्रमादि गुणानां कारकः भवति कुजः भवति। अतः कुजः ग्रहेषु सेनानायकः भवति। कुमारः अर्थात् बुधः राज्ञः पुत्रः वर्तते। बृहस्पतिः देवानां गुरुः, शुक्रः दैत्यानां गुरुः भवति। “आचार्यत्वं” साधर्म्यत्वात् उभौ मन्त्रिणौ भवतः। शनिः प्रेष्यः भवति। एवं पञ्चाताराग्रहाः भवन्ति। कुजबुधगुरुशुक्रशनयः ताराग्रहाः भवन्ति। राहुकेतू तमो ग्रहौ भवतः। अत्र स्मर्तव्यः अंशः-
          रविन्द्रौ राजानौ, कुजः सेनापतिः, बुधः कुमारः, गुरुशुक्रौ सचिवौ, शनिः दासः च भवति।
वराहमिहिराचार्येण ग्रन्थे उक्तः श्लोकः च-
कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजो ज्ञो वचो। जीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।
राजानौ रविशीतगूक्षितसुतो नेताकुमारो बुधः। सूरिर्दानवपूजितः च सचिवौ प्रेष्यः सहस्रांशुजः ।।“
प्रयोजनम्-
जन्मनि प्रश्ने वा बलवान् ग्रहः उपचयस्थो भवति, तदुक्तो राजादिकारककार्यसाधिको भवति। प्रथममुदितौ सूर्येन्दू सर्वसाधारण्येन सर्वत्र निरूपणीयौ भवतः। बुधः अपि अश्रयवशात् सुखदुःखादयो ज्ञेयः। तदनन्तरे उदितौ कुजशनी अनिष्टदौ सर्वत्र। तदनन्तरोदितौ गुरुभृगू सर्वत्र शुभफलदौ भवतः। तदनन्तरोदितौ राहुकेतू क्षेत्रोच्चादिहीनत्वात् अशुभफलदौ इति।
विशेषविचारः-
रविः सिंहादारभ्य क्रमात् षड्राशीनाम् अधिपतिः, चन्द्रः व्युत्क्रमेण कर्कटकात् षड्राशीनाम् अधिपतिश्च भवति।
प्रश्नाः
रवेः पिता कः?
सूर्यस्य जननं कथम् जातम्?
चन्द्रस्य जननम् कथम्?
जातके चन्द्रस्य बलस्य महत्त्वं किम्?
सचिवौ द्विविधौ । तौ कौ?
सूर्यलोकस्य कथा ज्ञानाय संपर्कं साधयतु।

ज्योतिर्विद्या-21

ज्योतिर्विद्या 22
रव्यादिग्रहाणां पर्यायाः 2-3 श्लोकः।
 चन्द्रः शीतलकिरणत्वात् शीतरश्मिरिति, मृग-अङ्कधाराणात् मृगाङ्कः भवति। एवं ग्रहाणां कार्याधारेण, स्वरूपाधारेण इतरकारणेन वा पर्यायपदानि विवृतानि; तानि पदानि ज्ञातव्यानि भवन्ति। अतः अग्रे ग्रहाणां पर्यायः लिख्यते। सूर्यः हेलिसंज्ञः,चन्द्रमा शीतरश्मिसंज्ञः च भवति। कुजः पृथिव्याः पुत्रः भवति। सैव आरः, वक्रः, क्रूरदृक् च भवति। बुधः चन्द्रस्य पुत्रः भवति। स हेम्ना, वित्, ज्ञः, बोधनः च भवति। गुरुः जीवनप्रदाता भवति अतः जीवः, आङ्गिरः, अग्नि-आधान-अश्वमेधापर्यन्तं क्रतूनाम् आचार्यत्वं कारकत्वं च स सुरगुरुः इति अपि वक्ष्यते। सर्वशास्त्रव्यवहारपाटवत्वात् वाक्पतिः, इज्यः, पूज्या एते बृहस्पतेः संज्ञा च भवन्ति। शुक्रस्य, भार्गवः, सितः च भवति। सूर्यस्य पुत्रः शनैश्चरः भवति, स कोणः, मन्दः, असितः चेति पर्यायपदानि भवन्ति। किरणरहितत्वात् राहुः तमसंज्ञा, केतुः वह्निवाचकत्वात् शिखीसंज्ञा च भवति।
अत्र स्मर्तव्यः अंशः-
          सूर्यः हेलिः, चन्द्रमा शीतरश्मिः, बुधः इन्दुपुत्र-वित्-ज्ञाः, आर-वक्र-क्रूरदृगाः कुजः, कोण-मन्द-सूर्यपुत्र- असितश्च  शनैश्चरः, जीव-आङ्गिरा-सुरुगुरु-वचसां पतयः, शुक्रः भृगुसुत-सित-आस्फुजित्, राहु-तमौ, केतोः शिखी, एवं संज्ञा भवन्ति।
हेलिः सूर्यश्चन्द्रमाः शीतरश्मिर्हेम्नो विज्ज्ञो बोधनश्चेन्दुपुत्रः।
आरो वक्रः क्रूरदृक्चावनेयः कोणो मन्दः सूर्यपुत्रो असितश्च।।
जीवोऽङ्गिराः सुरगुरुः वचसां पतीज्यः शुक्रो भृगुः भृगुसुतः सितास्फुजिच्च।
राहुः तमो सुरगुरश्च शिखीति केतुः पर्यायमन्युपलभ्य वदेच्चलोकात्।।”

ज्योतिर्विद्या 23
ग्रहाणां शरीरवर्णः।
ग्रहाणां शरीरवर्णाः कथिताः। तत्रादौ रवेः रक्तवर्णश्यामवर्णयोः मिलितवर्ण अर्थात् पाटलपुष्पवर्णः भवति। रक्तश्यामः इति आचार्येण श्लोके कथितः। रक्तश्च असौ श्यामश्च रक्तश्यामः इति। सूर्यस्य स्वरूपं रक्तश्यमवर्णः भवति। यदि रविः उच्चगः तर्हि रक्तवर्णः भवति। यदि नीचगः तर्हि श्यामवर्णः भवति। एवम् अनुपातेन इतरक्षेत्रेषु ज्ञेयम्। चन्द्रः गौरवर्णः अर्थात् श्वेतवर्णप्रायः भवति। कुजः अर्थात् अङ्गारकः स नाति उच्चः न अतिदीर्घः, रक्तगौरः पद्मपत्राभः वर्तते। ज्ञः बुधः स दूर्वश्यामः शाद्वलवर्णः। गुरुः गौरगात्रः अर्थात् गौरशरीरः, धवलगात्रः, गौर-अवयवः भवति। शुक्रः श्यामवर्णः भवति अर्थात्  अतिगौरः अपि नास्ति अतिकृष्णोऽपि नास्ति। भास्करिः सौरिः स कृष्णदेहः असितशरीरः अर्थात् अन्तः स्वच्छ इत्यर्थः। वर्णप्रयोजनम्- सर्वग्रहेषु  यः बलवान् स तद्वर्णः तत्कालजातो भवति। प्रश्नकालेषु चौरादेः अपि ज्ञातव्यम्।
ग्रहाणां वर्णः आधुनिकविज्ञाने पृथक् वर्तते
Mercury: gray
Venus: pale yellow.
Earth: mostly blue with white clouds
Mars: mostly reddish brown,
Jupiter: orange and white bands.
Saturn: pale gold
ग्रहणां वर्णानाम् प्रयोजनम् किम् ?

ज्यौतिर्विद्या~24
ग्रहाणां वर्णाधिपत्यम्।
रात्रौ नीलाकाशे अकाशवीक्षणसन्दर्भे रक्तवर्णेन दृश्यमानग्रहः भवति मङ्गलः। सर्वे मुद्यन्ति एव पूर्णचन्द्रं दृष्ट्वा । चन्द्रस्य श्वेतवर्णस्य मनोहरत्वम् अवगच्छन्ति। एवम् इतरग्रहाणां वर्णाधिपत्यम् अग्रे लिख्यते। ताम्रवर्णस्य नाथः सूर्यः अधिपः भवति। श्वेतवर्णस्य अधिपः चन्द्रः भवति। अतिरक्तस्य अधिपः भौमः, हरितस्य अधिपः बुधःहरिद्रासदृशवर्णस्य अधिपः गुरुः, चित्रस्य नानवर्णस्य शुक्रः, कृष्णवर्णस्य सौरिः, एवं वर्णानाम् अधिपत्यं भवति। तदुक्तं च “वर्णाः ताम्रसितातिरक्तहरितव्यापीतचित्रासिताः।“  अर्थात् ग्रहादीनां वर्णाः सूर्यादीनां क्रमशः ज्ञातव्यम् इति। यथा आदित्यस्य आधिपत्यः ताम्रवर्णे, चन्द्रस्यः सितः, कुजस्य अतिरक्तः, बुधस्य हरितः, गुरोः व्यापीतः, शुक्रस्य चित्रा, शनेः असितः भवति।
 अत्र स्मर्तव्यः अंशः-
          ताम्र-सित-अतिरक्त-हरित-व्यापीत-चित्र-असिताः आदित्यादीनां वर्णाधिपत्यम् भवति।
प्रयोजनम्- हृतनष्टादिवर्णद्रव्यज्ञानं जन्मनि प्रश्नकाले चोक्तद्रव्यलाभः अन्यथा हानिः ग्रहपूजायां यद्वर्ण कुसुमपूजा।
बोधप्रश्नः।
ग्रहाणां वर्णाधिपत्यम् लिखत।                      

ज्यौतिर्विद्या 25
ग्रहाणां देवताः।
ग्रहाः देवतांशाः “, “ग्रहरूपी जनार्दनः” इत्यादयः उक्तयः ग्रहाणां देवतांशकत्वं स्मार्यन्ते। सूर्यादिग्रहाणां स्वामिनः वर्तन्ते। तानि अग्रे लिख्यन्ते। सूर्यस्य वह्निः, चन्द्रस्य जलं, कुजस्य सुब्रह्मण्यः, बुधस्य विष्णुः, गुरोः इन्द्रः, शुक्रः शची, शनेः कः (ब्रह्मा) एवं देवताः भवन्ति। अत्र स्मर्तव्यः अंशः-
          “वह्नि-अम्बु-अग्निज-केशव-इन्द्र-शचि-काः सूर्यादिग्रहाणां नाथाः क्रमात् भवन्ति “।
बोधप्रश्नः।
6.       सूर्यादिग्रहाणां स्वामिनः के भवन्ति?
4.1.    ग्रहाणां दिक्स्वामित्वम्।
प्रागादि दिशानाम् अधिपाः भवन्ति। अष्टदिक्षुपूर्वस्यां दिशि आदित्यः अधिपः भवति। आग्नेय्यां दिशि शुक्रः अधिपः भवति। दक्षिणस्यां दिशि अङ्गारकः भवति। दक्षिणपश्चिमस्याम् अर्थात् नैऋत्यां दिशि तमो अर्थात् राहुः अधिपः भवति। पश्चिमायां शनिः अधिपः भवति। पश्चिमोत्तरस्याम् अर्थात् वायव्यदिशिचन्द्रः अधिपः भवति। उत्तरस्यां दिशि वित् अर्थात् बुधः अधिपः भवति। उत्तरपूर्वस्यां दिशि अर्थात् ईशान्यदिशि गुरुः अधिपः भवति।
अत्र स्मर्तव्यः अंशः-
           प्रागादिदिशानाम् अधिपतयः रवि-शुक्र-कुज-तम-शनि-इन्दु-वित्-गुरवः भवन्ति।
बोधप्रश्नाः-

7.       ग्रहाणां दिक्स्वामित्वं लिखत। 