विवाहप्रश्ने
शुभाशुभनियमः
आदौ यथाबलं दैवज्ञं
सुखासीनं सम्पूज्य आदौ आख्यया दम्पत्योः सार्द्धं सकृत् पृच्छेत् शुभाशुभम्।
तत्कालवाक्ये केन्द्राभ्यां ततो त्रिकलज्ञा शास्त्रचक्षुषैः शुभाशुभं
ज्ञात्वा इव आचष्टे। लग्ने पापग्रहयुक्ते, नीचशत्रुग्रहस्थिते अष्टमे
सप्तमे चैव तदा दम्पत्योः न शुभः। पापयुक्तः उदयात् चन्द्रः
षष्टे अष्टमे वा स्थितः
विवाहसमायात् तयोः अष्टमे अब्दे मृत्युं दद्यात्। प्रश्नलग्ने यदा चन्द्रात् षष्टाष्ठमे कुजः, स मनुजो अष्टाब्दैः
अपुत्रकः भूत्वा यमालयं याति।
लग्नात् अष्टमे यदा पापः शत्रु नीचनिरीक्षिताः तदा सा विधवा भवेत्। कन्या लग्ने पापयुतं यदि, नीचस्थः
शत्रुसन्दृष्टः पापः पञ्चमगो तदा कुलटा
कन्या मृतपुत्राथवा भवेत्। लग्ने शनिः
चन्द्रकुजाः सप्तमे,
तदा सप्तमासि पृच्छकः
मृत्युं प्राप्नोति। सप्तमभावः यदि
शून्यं स्यात् दुर्बलं दुर्ग्रहे क्षितम् सौम्यग्रहदृशा हीनं भर्ता कापुरुषो
भवेत्। मन्दे सप्तमराशिस्थे
पापशत्रुनिरीक्षिते कन्या विधवा भूत्वा जरां गच्छति। पापः पञ्चमराशौ चेत् वन्ध्या पुत्रनाशिनी वा भवेत्।
नीचारिराशौ पापः चेत् गीतपुष्पा वधूः भवेत्।
पुत्रस्थेषु शुभेषु बहुपुत्रवती भवेत्। स्वर्क्षतुङ्गत्रिकोणेषु तत्पुत्राः
बहुजीविनः।
इति विवाहप्रश्ने
शुभाशुभनियमः।।
ताराकूटः
दैववित्
प्रश्नकेन्द्रेण शुभाशुभं ज्ञात्वा दिनादीनि क्रमात् एव निरूपयेत्। जन्मः, सम्पत्,
विपत्, क्षेमः प्रत्यरिः, साधको,
वधः, मित्रं,
परममैत्रम् इति नवताराः भवन्ति।
वरजन्मतारातः कन्या जन्मतारां यावत् क्रमशः गणयेत्। अनुकूलञ्चेत् शुभम् भवति।
स्त्री जन्मतारकात् अपि गणयेत्। त्रिजन्मताराः क्रमशश्चोत्तमाधममध्यमाः
भवन्ति। एवं ग्रन्थेस्मिन् ताराकूटः
प्रतिपादितः। जन्मर्क्ष मनुकूलञ्चेत् शुभं स्त्री जन्मतारकात् त्रिजन्मताराः
क्रमशश्चोत्तमाधममध्यमाः।
गणनियमः
गणकूटे
देव-मनुष्य-राक्षसभेदेन त्रयः गणाः वर्तन्ते। अत्र नक्षत्राणां विभागः कृतः
वर्तते। अश्विनी,
मृगशिरा, पुनर्वसुः, पुष्यः, हस्ता,
स्वाती, अनुराधा,
श्रवण, रेवती एताः नवताराः देवगणान्तर्गताः भवन्ति।
ग्रन्थेस्मिन् गणविचारः कथितः यथा-
सौम्य नक्षत्रं
मृगशिरा भवति। “सौम्यादिभत्रयमरुत्तुरगान्त्यहस्ता” इति प्रथमः पादः। “सौम्यादितिद्वय”
इति पाठान्तरम् अपि वर्तते। अत्र अदितिनक्षत्रं नाम पुनर्वसुः अदितिद्वयम् इति उक्तत्वात्
पुष्योपि ग्राह्यः। मरुत् अर्थात् स्वाती नक्षत्रम्, तुरगः अर्थात् अश्विनी, अन्त्यनक्षत्रं रेवती, हस्ता,मित्रनक्षत्रम् अनुराधा, विष्णु सहितानि अर्थात् श्रवणसहितानि देवगणान्तर्गतानि
इति कथितः।
पूर्वाभाद्रा, पूर्वाफल्गुणी, पूर्वाषाढा, उत्तराषाढा, उत्तराभाद्रपदा, उत्तराफल्गुणी, रोहिणी, आर्द्रा,
भरणी, एतानि नक्षत्राणि नरगणान्तर्गताः भवन्ति इति। भुवाम्
अपराणि तज्ञाः प्रतिपादयन्ति,
अर्थात् चित्रा, ज्येष्ठा, धनिष्ठा, विशाखा,
मूला, कृत्तिका, शतभिषज्, मघा,
आश्लेषा एतानि
राक्षसगणान्तर्गतानि भवन्ति।
गणः
देवः अश्विनी, मृगशिरा,
पुनर्वसुः, पुष्यः,
हस्ता, स्वाती,
अनुराधा, श्रवण,
रेवती।
मनुजः पूर्वाभाद्रा, पूर्वाफल्गुणी, पूर्वाषाढा, उत्तराषाढा, उत्तराभाद्रपदा, उत्तराफल्गुणी, रोहिणी, आर्द्रा,
भरणी।
राक्षसः चित्रा, ज्येष्ठा, धनिष्ठा, विशाखा,
मूला, कृत्तिका, शतभिषज्, मघा,
आश्लेषा।
गणकूटनियमः
अग्रे कथ्यते। वधूवरयोः समानगणश्चेत् बहु शुभः भवति। मनुष्यदेवगणयोः मध्यमम्।
असुरसुरगणे विनाशयोगः भवति।
राक्षसमानुषगणयोः च सर्वनाशः भवति। अतः देव मनुष्य राक्षसगणानां सम्यक्
विवेचनपुरस्सरं विवाहो निश्चेतव्यः। इतरग्रन्थेषु गणकूटस्य सप्तगुणाः कथिताः। ग्रन्थेऽस्मिन् गुणविचारे न कथितः।
माहेन्द्रनियमः
चतुर्थः, सप्तमः,
दशम, त्रयोदश,
षोडश, एकोनविंशतिः, द्वाविंशतिः, पञ्चविंशतिः, सप्तविंशतिः
कन्याजन्मनक्षत्रात् वरजन्मनक्षत्रम् यदि प्रागुक्त संख्याकाः भवेत् तर्हि
माहेन्द्रकूटः भवति।
पुन्नक्षत्रम्
पुनर्वसुः, हस्ता,
श्रवण, अश्विनी,
पुष्य, मित्र आर्यमा
प्रोष्टपदानि पुंसः षण्डस्य भूलं शतभिषज् सौम्यशेषास्त्रियः षोडशतारकाः
स्युः। स्त्रीपुंसोः स्वस्वनक्षत्रे विवाहे शुभसाधनम्। मध्यमः षण्डयोगः स्यात्
वैपरीत्यं विरोधकृत्।
स्त्रीदीर्घनियमः
एतत् शास्त्रज्ञैः
कथञ्चित् परिकल्पितम् इति ग्रन्थकारः उल्लिखति। त्रयोदशदिनात् ऊर्ध्वं
स्त्रीदीर्घं कूटः जायते इति लेखकः लिखति। इतिरग्रन्थेषु त्रयोदशनक्षत्रात् उपरि
स्त्रीदीर्घनियमः इति दृश्यते। परन्तु ग्रन्थेऽस्मिन् त्रयोदशदिनात् ऊर्ध्वम् इति
व्यत्यस्तरूपेण लिखितम् अस्ति।
योनिनियमः
अश्विनीशतभिषज्-नक्षत्रयोः
अश्वसंज्ञकयोनिः भवति। स्वातीहस्तयोः नक्षत्रयोः महिषसंज्ञकयोनिः भवति।
धनिष्ठापूर्वाभद्रपदयोः सिंहः,
भरणी, रेवत्योः गजः, पुष्यकृत्तिकयोः
मेषः, श्रवणपूर्वाषाढयोः वानरः, उत्तराषाढ-अभिजितोः नकुलः, रोहिणीमृगशिरयोः सर्पः, ज्येष्ठा-अनुराधयोः हरिणः, मूलार्द्रयोः कुक्कुरः, पुनर्वसु आश्लेषायोः मार्जारः, अथ मघापूर्वाफल्गुन्योः उन्दुरुः, विशाखाचित्रयोः व्याघ्रः, उत्तराफल्गुणी उत्तराभाद्रपदयोः गौः, योनिः भवति। योनिकूटस्योपयोगिता अग्रे लिख्यते। एकयोनिषु
जातनां मैत्री शुभदं भवति। भिन्नयोनिषु जातानां मध्यमफलं स्याद्। अरिभावे न मैत्री
भवति।
राशिनियमः
विवाहानुकूले
दम्पत्योः एकराशिः चेत् परस्परं महत्प्रीतिः। राशयः द्विद्वादश, षष्ठाष्टमौ, विना
इतरभावयोः हिताय भवति। तृतीयेकादशौ, अपि शुभदः। अष्टमसप्तमौ भावयोः यदि दम्पत्योः
कुटुम्बविवृद्धिः जायते।
राश्यधिपतिनियमः
दम्पत्योः
जन्मराश्याधिपौ यदि मित्रौ तर्हि अत्यन्तं शुभम्। यदि उदासीनौ तर्हि मध्यमः।
वधू-वरयोः जन्मराश्यधिपौ यदि शत्रुता स्यात् तर्हि अशुभदः भवति।
वश्यनियमः
अधुना वश्यविचारो
कथ्यते। राशीणां पुरुषजलचरकीटपशु इत्यादिविभागः अस्तीति ज्ञायते एव। कः राशिः कस्य
वशे भवती इत्यत्र प्रतिपद्यते। वश्यकूटविचारो यथा-
मेषस्य अलि हरी वश्यं
वृषस्य कर्कतौलि
मकरकुम्भयोः कन्यका
कर्किनः चापवृश्चिकः
सिंहस्य तुला
कन्यायां
मकरकुम्भमीनाः(नृयुक् मीना)
द्यूक
मृगपार्थोनकर्कटाः
धनोः मीनः
मकरस्य मेषकुम्भौ
कुम्भस्य मेषः
मीनस्य मकरः
रज्जुनियमः
रज्जुकूटस्य गणना
अङ्गुल्या क्रियते। दक्षिणहस्तस्य कनिष्ठिकाम् अश्विनीति, अनामिकां भरणीति, मध्यमां कृत्तिकेति, मन्तव्यम्। पुनः मध्यमां रोहिणीति, अनामिकां मृगेति, कनिष्ठिकाम् आर्द्रा इति कल्पना कार्या। एवम् आरोह अवरोह क्रमः अनुवर्तते। गणनायां यदि
एकस्याम् एव अङ्गुल्यां वधूवरयोः नक्षत्रे आगच्छतः चेत् तदा रज्जुदोष इति ज्ञेयम्। भिन्नाङ्गुलीषु चेत् शुभम्।
पादस्थिताः= अश्विनी, ज्येष्ठा, आश्लेषा, मघा,
मूला, रेवती।
उरुस्थिताः= भरणी, पुष्या,
पूर्वा, अनुराधा,
पूर्वाषाढा, उत्तराभाद्रपदा।
नाभिस्थिताः= कृत्तिका
पुनर्वसुः उत्तराफल्गुणी, विशाखा, उत्तराषाढा, पूर्वाभादारपदा।
कण्ठस्थिताः =
रोहिणी, आर्द्रा, हस्ता,
स्वाती, श्रवण,शतभिषज्।
शिरस्थिताः= मृगशिरा, चित्रा,
धनिष्ठा
एकस्मिन्
रेखान्तर्गतं अथवा एकः रजुः दम्पत्योः न भवेत्। रज्जुभिन्नतायां दम्पत्योः शुभं
जायते।
पादवेधे पान्थत्वम्
उरवेधे रेगिना
नाभिवेधे अपुत्रत्व
बाहुवेधे दरिद्रता
मूर्धावेधे मृत्यु
गर्गादीनां
मतानुसारं सर्वत्रमरणं जायते।
वेधनियमः
स्वती, रोहिणी,
कृत्तिका, भरणी,ज्येष्ठा, अश्विनी,
(राधा)विशाखा, अनुराधा,
खलु पूर्वसूत्रे,
हरीश (विश्व), अदिति(पुनर्वसुः), मृगशिरा,
शुक्र, चित्रा,
अभिमूला अक्षितयोः द्वितीया
(उपा-अन्त्य)उत्तराभाद्रपदा, भाग्य आर्यमा() हस्ता, (पौष्ण) रेवती, (अजैकपात्)
पूर्वाभाद्रपदा,
वा वर्धि, मघा,
एकसूत्रे प्रतितन्नशस्ता, जन्मर्क्षयुग्ये मिथुनस्य वेधः पूर्वत्र सूत्रे मरणं
द्वितीये गर्भर्क्षयोः अन्यत्र धनप्रणाशः, एवं विवाहे विधिवत् विदध्यात् शुभाशुभगं वेधकलक्षणेषु।
भूतनियमः
पृथिवी-आप्–तेज-वायु-आकाश
इति पञ्चमहाभूताः भवन्ति। अश्विन्यादिसप्तविंशतिनक्षत्राणां पञ्चभूतानां सम्बन्धः
अग्रे लिख्यते।“ताराभूत-ऋतु-बाण-ऋतु-पञ्चक-तुरगादिकाः “एवं संज्ञाः वर्तन्ते। ऋतु अर्थात्
षड्, बाण अर्थात् पञ्च, एवं संज्ञाः भवन्ति। तेषां विभागक्रमः अधः सारिण्यां
दर्श्यते।
पृथिवी=6 अश्विनी, भरणी,
कृत्तिका, रोहिणी,
मृगशिरा, आर्द्रा।
आप्=5 पुनर्वसुः, पुष्य,
आश्लेषा, मघा,
पूर्वाः।
तेजः=6 उत्तरा, हस्ता,
चित्रा, स्वाति,
विशाखा, अनुराधा।
वायुः=5 ज्येष्टा, मूला,
पूर्वाषाढा, उत्तराषाढा, श्रवण।
आकाशः=5 धनिष्ठा, शतभिषज्,पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती।
पृथिव्यादि भूतेषु
दम्पत्योः शुभाऽशुभनियमाः अत्र आख्यातः।
जन्मनक्षत्रम् एकस्मिन् एव भूते
शुभावहम्।
मित्रभूते चेत् प्रीतिकृत्।
वैरिभूते चेत् विनाशकृत्।
जलाग्निभूते नाशः
स्यात्। मित्रञ्च वायुतेजसी। सर्वत्रैव आकाशभूते न विरोधाय कल्प्यते। प्रश्नमार्गे उच्यते यत् अश्विन्यादि
सप्तविंशतिनक्षत्राणां पृथिवी-आप्-तेजो-वायुः-आकाशः इति पञ्चभूतसंज्ञा प्रदत्ता
अस्ति।
लिङ्गनियमः
पु=अश्विनी, रोहिणी,
पुनर्वसुः, पुष्य,
हस्ता, अनुराधा,
श्रवण पूर्वाभाद्रपदा,उत्तराभाद्रपदा।
स्त्री= भरणी, कृत्तिका, आश्लेषा, मघा,
पूर्वा, उत्तरा,
आर्द्रा, चित्रा,
स्वाति, विशाखा,ज्येष्ठा, पूर्वाषाढा, उत्तराषाढा, धनिष्ठा शततारकः, रेवती।
नपुं=मृगशिरा, मूला, ,शतभिषज्।
पुंसि
पुल्लिङ्गताराः स्त्रिय स्त्रीलिङ्गताराः उत्तमम्। विपरीते स्यात् अधमः।अन्यथा
मध्यमा।
जातिनियमः
ब्राह्मण अश्विनी, पुष्य,
आश्लेषा, विशाखा,
अनुराधा शतभिषज्, पूर्वाभाद्रपदा,
क्षत्रिय भरणी, पुनर्वसुः, मघा, स्वाति,
ज्येष्टा, धनिष्ठा,
उत्तराभाद्रपदा
वैश्य कृत्त्तिका, आर्द्रा,
पूर्वा, चित्रा,
मूला, श्रवण,
रेवती
शूद्रा रोहिणी, मृगशिरा,
उत्तरा, हस्ता,
पूर्वाषाढा, उत्तराषाढा,
एकजातौ शुभम्
भिन्नजातौ मध्यमम् प्रतिलोमं अधमम्।
गोत्रनियमः
अश्विन्यादि अभिजित्
सहितानाम् अष्टाविंशतिनक्षत्राणां सप्तर्षीणां गोत्राणि भवन्ति। यथा-
1. मरीचिः= अश्विनी, पुष्य,
स्वाति, अभिजित्।
2. वसिष्ठः= भरणी, आश्लेषा,
विशाखा, श्रवण।
3. आङ्गीरसः= कृत्तिका, मघा,
अनुराधा, धनिष्ठा।
4. अत्रि=रोहिणी, पूर्वा,
ज्येष्ठा, शतभिषज्।
5. पुलस्त्यः=मृगशिरा, उत्तरा,
मूला, पूर्वाभाद्रपदा।
6. पुलहः=आर्द्रा, हस्ता,
पूर्वाषाढा, उत्तराभाद्रपदा।
7. क्रतुः=पुनर्वसुः, चित्रा,
उत्तराषाढा, रेवती।
दम्पत्योः
जन्मनक्षत्रम् एकागोत्रे यदि भवेत् तर्हि प्रायशः कलहाय भवेत्। भिन्नगोत्रे शुभदः।
पक्षिनियमः
1. भेरुण्डः =अश्विनी, भरणी,
कृत्त्तिका, रोहिणी,
मृगशिरा।
2. पिङ्गलः=आर्द्रा, पुनर्वसुः, पुष्य, आश्लेषा,
मघा।
3. काकः=पूर्वा, उत्तरा,
हस्ता, चित्रा,
स्वाति।
4. कारण्डः= विशाखा, अनुराधा,
ज्येष्टा, मूला,
पूर्वाषाढा।
5. शिखावलः=उत्तराषाढाश्रवण, अभिजित्,
धनिष्ठा, शतभिषज्,
पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती।
वधूवरयोः एकपक्षिश्चेत् उत्तमं फलम् परस्परं शत्रुपक्षि चेत् अधमं, मित्रपक्षिश्चेत् मध्यममिति पक्षिकूटमुच्यते।
योगिनीनियमः
क्रमात् ब्राह्मणी
प्राच्याम् अथ आग्नेय्यां कुमारशक्तिः, दक्षिणस्यां सा वराहशक्तिः अथ नैऋत्यां सिद्धा शक्तिः अथ प्रतीच्यां
वौष्णवी शक्तिः तदनु तदनन्तरं वायव्यां
माहेन्द्राशक्तिः ततः अनन्तरम् उदीच्यां दिशि चामुण्डी शक्तिः एतदनु ईशान्यां सा
प्रसिद्धा श्रीः अनाद्यचिन्त्यमायारूपा
महेश्वरी शक्तिः चेति अष्टदिक् शक्तयः, दिक्षु
शक्तयःभवन्ति।
ब्रह्माद्यष्टसु
योगिनीषु पूर्वोक्तासु प्रागाद्यष्टशक्तिषु अश्विन्यादितः एकैकस्यां दिशि क्रमेण
एकैकं नक्षत्रं निक्षिपेत्। पर्यायत्रये निक्षिप्ते सति चतुर्विंशतिनक्षत्राणि
भवन्ति। एवं च शिष्टनक्षत्रत्रितयं प्रागादिसंस्थासु ब्रह्माणी, कुमारी वाराहीषु तिसृषु सजातिः इव निक्षिपेत्। एवं नक्षिप्ते परिणये
दम्पत्योः जन्मनक्षत्रे कर्तृणी एकवर्गम्
एकशक्तिनक्षत्रवर्गं गते स्यातां यदि दम्पत्योः प्रीतिः स्यात्। अन्यथा उक्तवैपरीत्ये भिन्नलर्गं गते चेत्
तन्नक्षत्रद्वयम् उभयोः दम्पत्योः कलहप्रदः स्यात्। अयमेव शक्तिवर्ग इत्युच्यते।
1. ब्रह्माणी=प्रथमा नवमी ध्वज ज्योष्टा
प्राच्यां स्थितः।
2. कौमारी=दशमी धूम
भौम कृत्तिका आग्नेय्यां स्थितः
3. देवमन्त्री=तृतीया एकादशी सिंह भरणी
4. वैष्णवी
5. ऐन्द्रमन्त्री
6. चामुण्डी
7. माहेश्वरी
8. महालक्ष्मी
तुल्ययोगिन्या
तारकाः दम्पत्योः अतिशोभनः। अनिष्टाः भिन्नयोगिन्याः अचिरात् मरणप्रदाः।
आयनियमः
आयताराः प्रागवत् क्रमात् ध्वजधूमादिषु स्थिताः।
तद्यथा- ध्वजः,
धूमः, सिंहः,
शुनकः, उक्षः,
खरः, गजः,
काकः इति अष्ट आयाः भवन्ति
लोके। अश्विन्यादि नक्षत्रम् ध्वजादि आयानां मुहुः गणयेत्।तदानीं नक्षत्रं त्रयं
अवशिष्यते।अवशिष्टाः नक्षत्राणां ध्वजः धूमः सिंहः च भवन्ति।
1. ध्वजः =अश्विनी, आश्लेषा,
अनुराधा, पूर्वाभाद्रपदा
2. धूमः=भरणी, मघा,
ज्येष्ठा, उत्तराभाद्रपदा
3. सिंहः=कृत्तिका, पूर्वा,
मूला, रेवती
4. शुनकः=रोहिणी, उत्तरा,
पूर्वाषाढा,
5. उक्षः=मृगशिरा, हस्ता,
उत्तराषाढा,
6. खरः=आर्द्रा, चित्रा,श्रवण
7. गजः=पुनर्ववसुः, स्वाती,
धनिष्ठा
8. काकः=पुष्य, विशाखा,
शतभिषज्
स्व आयसु जातो मध्यस्थे मध्यमः व्यये अधमः।
देवनियमः
देवताराः प्राग्वत्
क्रमात् पूर्वा आग्नेय्यादिषु स्थिताः, तुष्टिः
सुह्रदि,मध्यस्थे चोपेक्षा द्वेषणाद्विषौ, रविः
अश्विनी, भरणी,
कृत्त्तिका, रोहिणी,
मृगशिरा, आर्द्रा,
पुनर्वसुः, पुष्य,
आश्लेषा, मघा,
पूर्वा, उत्तरा,
हस्ता, चित्रा,
स्वाति, विशाखा,
अनुराधा, ज्येष्टा, मूला, पूर्वाषाढा, उत्तराषाढा, श्रवण,धनिष्ठा,शतभिषज्,पूर्वाभाद्रपदा,उत्तराभाद्रपदा,रेवती
तत् तिथि
समुद्दृष्टदिक्षु यात्रा न शोभना वर्तते। तत्तद् ग्रह समुद्दृष्टदिङ्मुखो न
निषीदतु।
विवाहविधिः
विवाह अनुकूल्ये
अष्टकूटानां लोके प्रसिद्धिः वर्तते। मुहूर्तचिन्तमाणि आदि ग्रन्थेषु
अष्टकूटविचारः कृतः। विशेषेण ग्रन्थेऽस्मिन् अष्टादशकूटानां विचारे विशदतया
विचारिताः वर्तन्ते। ते च अष्टादशकूटाः अधः लिख्यते। प्रायः एकादशशताब्देः प्राक्
श्रीलङ्कायाम् भारते अपि अष्टादशकूटानां मान्यता आसीत्। कालक्रमेण जगतः
परिवर्तमानः कूटानाम् उपयोगः ह्रासः सञ्जातः भवेयुः। अष्टादशकूटफलनिर्णये
ग्रथितस्वरूपं वयं द्रष्टुं शक्नुमः। अत्र प्राप्यमाणानां गुणानाम् आधारेण
आनुकूल्यनिर्णयः क्रियते।
1. दिनकूटः
2. गणकूटः
3. माहेन्द्रकूटः
4. स्त्रीदीर्घकूटः
5. योनिकूटः
6. राशिकूटः
7. राश्यधिपकूटः
8. रज्जुकूटः
9. र्वेधकूटः
10. भूतकूटः
11. लिङ्गकूटः
12. जातिकूटः
13. गोत्रकूटः
14. पक्षिकूटः
15. (वयोकूटः?)
16. योगिनीकूटः
17. आयकूटः
18. देवकूटः
एवम् अष्टादशकूटाः
कथिताः। एतेषु सर्वेषु विवाहः श्रेष्टसम्मतः। नवाधिकेषु कूटेषु युक्ते मध्यः
भवेत्। नवकूटात् अपि न्यूने विवाहो न प्रशस्तः इति कथितः। एषु कूटेषु प्रधानकूटाः
कथ्यते। ते गणकूटः,
योनिकूटः, वेधकूटः,
रज्जुकूटः, राश्यधिपकूटः, लिङ्गकूटः, योगिनीकूटः, भवति।
क्षेत्रस्य मूलम् अन्येन मित्रयोः च परस्परम्। सत्यसन्धविधौ सत्यसन्धाविधौ चैवम्
अवश्यं स निरूपयेत्। पुमान् एकोपि
नारीणाम् अनेकासां पतिः यतः साध्वी तु कामिनी तस्मात् योजनोयानुकूलतः। विशेषात्
अनुकूलनक्षत्रे शुक्लपक्षे अर्द्धरात्रे त्रयोदश्यां अथवा पौर्णम्यां
स्वमनोरथसिद्ध्यर्थं नानावलिविधानतः मदनगायत्र्यां जपेत्। मनसिजाम् अर्चनाम्
कुर्यात्। स च मन्त्रः-
“ओं नमो मदनाय (क्षेत्रस्य
मूलमात्येन) वीतमेहकामदेवाय धीमहे त्वं नो मदन प्रमोदाय स्वाहा”
हरिद्रामलकं मुस्ता
तुलसी विल्वपल्लवम् दुर्वातण्डुलसिद्धार्थ क्रशरं पद्मकेशरम् एभिः पुष्पौ
प्रमाष्टि गात्राणि चत्वारिंशत् दिनानि सप्तकृत्वं प्रतिदिनं सा कन्या पतिं
प्राप्नुयात्।एतत् उद्वर्तनं श्रेष्ठं श्रीकरं व्याधिपापहृत् यत् कन्यकायस्तु तत्
वरस्यापि प्रशस्तः।
No comments:
Post a Comment