मौल्यशिक्षणम्
प्रतिदिनमपि जनसञ्चारसाधनेषु
ह्रासमाननैतिकमूल्यानां परिणामः दरीदृश्यते। सामाजिकमाध्येमेषु साक्षराः
दुर्व्यवहारः, अश्लीलचित्राणि, अवाच्यशब्दानाम् उपयुज्यमानत्वं दृश्यते। एवं
वर्धिते भावीकाले जायमानसमाजिकस्थितिः असमीचीना इत्यत्र नैव विप्रतिपत्तिः। अपि च
अधुनातनसमाजः अङ्कप्रधाना–प्रवेशप्रधानात्मकसञ्जातम्। यदा एकः राष्ट्रः
सम्पूर्णस्वतन्त्रः भवति तदा सर्वस्मिन्
विषये राष्ट्रपरिप्रेक्ष्य परिवर्तनं भवति। परन्तु यदा अस्माकं राष्ट्रं
स्वततन्त्रः सञ्जातः तदा शिक्षाव्यवस्थायां किमपि परिवर्तनं न सञ्जातम्। या
आङ्रलैः तेषां शासनमुपयोगी प्रारब्धा सैव अनुवर्तिता। स्वतन्त्रात् पश्चात् 64
वर्षात् परमपि सैव शिक्षा अनुवर्तते इति अत्यन्तं विषादनीयः विषयः। प्रस्तुताधीयानेषु
नवबालेषु स्नेहादि सद्भावनाः नैतिकता च न्यूना वर्तन्ते।
अतः साम्प्रतशिक्षाव्यवस्थायाः मूल्यशिक्षायोजनीया।
प्राचीनकालेऽपि गुरुकुलेषु नैतिकताविकासाय शिक्षाप्रददाति स्म।
प्रस्तुतविद्याव्यवस्थायां विषयकेन्द्रितं नीतिरहितञ्च भूत्वा अङ्कपत्रप्रधानता वर्तते।
एतादृशव्यवस्थायां वास्तविकप्रगतिर्न भवति। महानगरेषु स्वायत्तितविद्यासंस्थासु अधिकाङ्कस्वीकरणाय
बालानां यन्त्रवत् नैकान्प्रयोगान् कुर्वन्ति। तेन सम्पूर्णसर्वङ्गीणविकासः न
भवति। परञ्च छात्राणां दृष्ट्या हानिरपि वर्तते।
गुरुकुलेषु आदर्शशिक्षकाणां सन्मार्गदर्शनेन
भावात्मकज्ञानात्मककौशलात्मकविकासाः अजायन्त। साम्प्रतं पाठ्यविषयेषु नैतिकता
मैल्यराहित्यञ्च दरीदृश्यते। साम्प्रतमस्मिन्वर्तमानसमाजे उत्तमाध्यपकानाम् अभावः
क्वचित् दृश्यते। यदि मौल्यशिक्षा स्यात्, तर्हि आत्मनियन्त्रितः आत्मानुशासिताः
ज्ञानकेन्द्रितः (न तु अङ्ककेन्द्रितम्) मैल्ययुतनागरिकता निर्मातुं शक्नुयामः। ये
मौल्याः अस्माकं पूर्विकैः आचरिताः तान् साम्प्रतशिक्षायां योजनीयाः। तेन सुसमिचीननागरीकता
निर्माणं स्यात्। आगमिनी उदयमानसमाजस्य कृते उत्तममौल्यशिक्षणं प्रदेया तेन ज्ञानात्मकभावात्मककौशलात्मकविकासाः
भवन्ति इति निवेदयित्वा विरम्यते।
No comments:
Post a Comment