।।नारदपुराणपरिप्रेक्ष्य ज्यौतिषम्।।
सारांशः (Abstract)-
ज्यौतिषं वेदानाम् अङ्गः। नारदः ज्यौतिषशास्त्रप्रवर्तकेषु
अन्यतमः। नारदस्य विरचितम् ग्रन्थः दुर्लभमिति मन्ये। परन्तु नारदीयपुराणे
ज्यौतिषविषयान् दृष्टः हृष्टः अस्मि। तान् प्रस्तौतुम् इच्छामि। आधुनिककाले ये
विचाराः सन्ति ताः सर्वाः मूलतया नारदेन कथिताः। नारदमुनिः एव प्राचीनत्वात्
वरहामिहरो वा भास्करो वा येषां वस्तु नारदेन प्रदत्त इति मे मतिः। नारदीयपुराणे
द्वितीयपादे ज्यौतिषगणितवर्णनं नाम
चतुःपञ्चाशत्तमो अध्याये 185 श्लोकाः वर्णिताः सन्ति। अपि च 55 अध्याये 758
श्लोकाः वर्णिताः सन्ति। एतेषु त्रिस्कन्धज्यौतिषस्य वर्णनम् अस्ति। तत्र गणिते
योगः, अन्तरः, गुणनम्, भाजनम्, वर्गः, वर्गमूलः, घनः एवं घनमूलः घनहस्तादयो वर्णिताः सन्ति। शङ्कुतः उन्नतिप्राप्तिः, अहर्गणसाधनम्,
मध्यमग्रहज्ञानम्, भूपरिधिप्रमाणम्, ग्रहाणां देशान्तरसंस्कारः, वारप्रवृत्तिः,
चन्द्रादिग्रहाणां परमविक्षेपः, इष्टज्यासाधनविधिः, ग्रहाणां मन्दपरिध्यंशाः, शीघ्रफलसाधनम्, कालज्ञानम्, पञ्चाङ्गज्ञानम्,
दिक्ज्ञानम्, लम्बांशः अक्षांशः च साधनम्, छायातः सूर्य साधनम्,ग्रहाणाम्
अहोरात्रमानम्, लङ्कोदयमानम्, मध्यमलग्नदशमलग्नसाधनम्, ग्रहणसाधनम्, ग्रहाणां
विंशोपकज्ञानम्, ग्रहाणां प्रतिबिम्बद्वारा छायासाधनम्, पञ्चग्रहाणां ज्ञानम्, ग्रहाणां युति भेदज्ञानम्, स्फुटक्रान्ति साम्यज्ञानज्ञानप्रकार,
पातस्य स्थिति कालः। फलितज्यौतिषे ग्रहाणां शीलादिनिरूपणम्, ग्रहाणां दृष्टिः,
ग्रहाणां कालमानः, ग्रहाणां मैत्री, पक्षिजन्मज्ञानम्, वृक्षाणां
वियोनिवर्णज्ञानम्, अधानज्ञानम्, गर्भमासानां ज्ञानम्, ग्रहाणां धातुः,
अरिष्टकथनम्, ग्रहाणां स्वरूपकथनम्, आयुर्दायकथनम्, लग्नायुसाधनम्,
पिण्डायुसाधनम्, अंशायुर्दायसाधनम्, अन्तर्दशाकथनम् अन्तर्दशासाधनस्य गुणकाः,
दशाफलम्, लग्नदशाफलम्, आजीविका कथनम्, राजयोग का वर्णनम्, नाभसयोगाः चान्द्रयोगाः,
प्रवृज्ययोगाः, चन्द्रदृष्टिविचाराः, स्वराशिस्थग्रहफलम्, लग्ननवमांशराशिफलम्,
मङ्गलादिग्रहाणां त्रिंशांशफलम्, कारकग्रहलक्षणम्, शुभजन्मलक्षणम्, ग्रहगोचरफलसमयः,शुभाशुभयोगः, स्त्रीजातकचिन्तनम्, पतिभावः, निर्याणविचारः,
पूर्वजन्मस्थितिः, गत-आगामीजन्मस्थितिः इत्यादि विचाराः सन्ति। ज्यौतिषस्य
संहिताप्रकरणम्, धूमकेतु विचाराः,चन्द्रशृङ्गोन्नतिफलम् , भौमचारः, बुधचारः ,
बृहस्पतिचारः, शुक्रचारः, शनिचारः, युगादि तिथयः , गजच्छायायोगः, क्षणतिथिकथनम्,
वारप्रकरणम्, मूहूर्ताः, निन्द्यतिथयः, बीजवपनम्, बृहत्-सम-अधमनक्षत्राणि,
पुष्यनक्षत्रस्य प्रशंसा, नक्षत्राणां योगः, ताराणां सङ्ख्याः, नक्षत्रेषु
वृक्षाणां व्युत्पत्तिः, योगसङ्ख्या,
निन्द्ययोगः , करणानां स्वामी, विष्टि अङ्गेषु घटी फलम्, वारेषु निन्द्यमुहूर्त,
मुहूर्तस्य विशेषप्रयोजनम्, भूकम्पादि
संज्ञासु युक्तनक्षत्रम्, क्रकचयोगः, संवर्तयोगः,
आनन्दादियोगः,सिद्धियोगः,सिद्धयोगः, दग्धयोगः, पुण्यकालः, चन्द्रशुद्धिविशेषताः
ताराविचारः चन्द्रमायाः विचाराः, षोडशसंस्काराणां मुहूर्तविचाराः कथिताः।
गण्डान्तदोषः, राशिकूटः, परिहारः,
योनिकूटः इत्यादयः। वास्तुविचारः, प्रस्थानविधिः, शकुनविधिः इत्यादयः विचाराः
सन्ति। तस्मात् नारदपुराणपरिप्रेक्ष्य ज्यौतिषम् इति पत्रम् लेखिष्ये।
नारदपुराणे नारदमुनिः इत्थं प्रारम्भः करोति यथा-
ज्यौतिषाङ्गं
प्रवक्ष्यामि यदुक्तं ब्रह्मणा पुरा
यस्य
विज्ञानमात्रेण धर्मसिद्धिः भवेत् नृणाम् ।।[i]
इत्यादिभिः श्लोकैः आचार्य नारदः ज्यौतिषशास्त्रम् प्रारभत। नारदस्य काले
ज्यौतिषं चतुर्लक्षात्मकानि श्लोकानि आसन्। गणितं जातकं संहिता इति
त्रिस्कन्धात्मकम्। गणिते परिकर्माणि, ग्रहाणां स्फुटाः, अनुयोगाः चन्द्रसूर्यग्रहाणं ग्रहाणाम् उदयास्तकम्,
ग्रहाणां छाया ग्रहाणां शृङ्गोन्नतिः, ग्रहाणां युतिः, ग्रहाणां पातसाधनम् ईरितम्।
फलितज्यौतिषे जातके राशिभेदाः च ग्रहयोनिविचाराः वियोनिविचाराः, निषेकविचाराः,
अरिष्टविचाराः, आयुर्दायविचारः, कर्माजीवाध्यायः, अष्टवर्गविचाराः, राजयोगाः,
नाभसयोगाः, चन्द्रयोगाः, प्रव्रज्याख्या, नाभसाः, ग्रहभावफलम् आश्रययागप्रकीर्णके,
अनिष्टयोगाः, स्त्रीजन्मफलम्, निर्याणविचाराः
नष्टजन्मविधानं, द्रेष्काणफलम्, सङ्कलितानि।
संहिताशास्त्रे ग्रहचारब्दलक्षणम्, तिथिवासरनक्षत्रयोगतिथ्यर्द्धसंज्ञकाः
मुहूर्तोपग्रहाः सूर्यङ्क्रान्तिर्गोचरः
क्रमात् चन्द्रताराबलं चैव सर्वलग्नार्तवाह्वयः, आधानपुंससीमन्तजातान्
अन्नभुक्तयः, चौलं कर्णच्छिदा मौञ्जी क्षुरिकाबन्धनं तथा। समावर्तननम् विवाहमेलापकादिविचाराः,
देवप्रतिष्ठाविचाराः, वास्तुलक्षणानि कथितानि। यात्रामहूर्तः, गृहप्रवेशः,
सद्योवृष्टिः, कर्मविलक्षणम्, उत्पत्तिलक्षणम्, चैव
संक्षेपतः नारदेन कतिथानि।
सङ्ख्यानां गणनापद्धतिः एवम् उक्तम् यथा एकं, दश, शतं, सहस्रम्, अयुतं, लक्षं,
प्रयुतं, कोटिः, अर्बुदम्, अब्जं, खर्व, निखर्व, महापद्म शङ्कुः, जलधिः, अन्त्यं,
मध्यं, परार्धम् इति। लक्षम् इति शब्दाय
नियुतम् इति इतरगणितग्रन्थेषु कथितः। कोटिः शब्दोपि न्यर्बुदम् इति भास्कराचार्येण
कथितम्। अब्जम् इत्यस्य समुद्रम् इति इतरगणितग्रन्थेषु कथ्यते। अयुतम् =104, लक्ष =105, प्रयुत =106 , कोटि=107 अर्बुदम् =108 , अब्ज=109, खर्व =1010, निखर्व =1011, महपद्म =1012, शङ्कुः =1013, जलधिः=1014, अन्त्यम्=1015, मध्यं=1016, परार्धम्=1017, जलधिः=1018, अन्त्यं=1019, मध्यं=1020, परार्धम्=1021 । यथा
अद्यत्वे क्रियते गुणनभाजकयोजकदि विचारान् अवर्णयत। वर्गमूलविचारोऽपि उक्तम् यथा-समाङ्कघातो
वर्ग स्यात्।
समाङ्कघाता वर्गः स्यात् तमेवाहुः कृतिं बुधाः अन्यात्तु विषमात्यक्त्वा कृतिं
मूलं न्यसेत्पृथक्।
द्विगुणेनामुना भक्ते फलं न्यसेत् क्रमात्। तत्कृतिं च त्यजेद्विग्र मूलेन
विभजेत् पुनः ।।
एवं मुहुवर्गमूलं जायते च मुनीश्वर।[ii]
वर्गस्य परिभाषा- द्वौ समाङ्कघातः वर्गः इति कथ्यते।
तमेव कृतिं इति बुधाः आहुः। कृतेः मूलम् ज्ञानविधिः अग्रे कथितः। विषम-सम इति
अङ्कानां निर्देशः करणीयः। अन्तिमविषमेन
यावान् वर्गः विभजेत्। पुनः द्विगुणतः मूलतः विभजेत्। एवमेव पुनः पुनः कृत्वा वर्गमूलं
जानीयात्। अद्यापि अयमेव विधिः उपयुज्यते। उदाहरणम् यथा-
16384
1
23
4
64
0
घनमूलज्ञानविधिः-
समान
त्रिषु अङ्कानां हननम् घनः इति कथ्यते। तदुक्तं यथा- “समत्र्यङ्कहतिः प्रोक्तो घनस्तत्र विधिः पदे”
आदौ विषम समयोः विभागः कुर्यात्। विषमात् अनत्यात् घनं विशोध्यम् तद् मूलम् ज्ञेयम्।
त्रिनिघ्न्य आप्तं मूलकृत्य समं फलम् मूले न्यसेत् ।
प्रोच्यते विषमं त्वाद्यं समे द्वे च
ततः परम्।
विशोध्यं विषमादनत्याद्घनं तन्मूलमुच्यते।।
त्रिनिघ्न्याप्तं मूलकृत्या समं मूले न्यसेत् फलम्।
तत्कृतिञ्चान्त्यनिहतान्त्रिघ्नीं चापि विशोधयेत्।
घनं च विषमादेवं घनमूलं मुहुर्भवेत्।।[iii]
उदाहरणार्थम्-
19683 इत्यस्य घनमूलं ज्ञातव्यम्। 19683
। अत्र नव एवं 9 3इति एते विषमसंख्यके भवतः।
अत्र
नवदश इत्यस्य निकटतम घन संख्या अष्टः।
19683
19-
8
328
7x7x2x3 294
0
एवं रीत्या आचार्यनारदः घनविचारम् अलिखत्। भिन्नाङ्कानां
योगः गुणनादिकम् आधुनिकपद्धतिः अपि समानः अस्ति। भिन्नाङ्कानां योगः भागानुबन्धः
इति कथितः।भिन्नाङ्कानाम् अन्तरं भागापवाह इति
कथितम् । भिन्नराशीनां योगः अन्तरे एव करणे आधुनिकाः अपि अयमेव विधिः
अनुसरन्ति। तच्च यथा-
अन्योन्यहारनिहतौ हरांशौ तु समच्छिदा।
लवा
लवाघ्नाश्च हरा हराघ्ना हि सवर्णनम् ।
भागप्रभागे
विज्ञेयं मुने शास्त्रार्थचिन्तकैः ।[iv]
यदि भिन्नराशीनां परस्परम् हरतः हरं अंशतः अंशं गुणनं
करणीयम्। तेन हरः समानः भवति।
भिन्नाङ्कानां हारः एवं कथितम्। यथा -
अनुबन्धे
अपवाहे चैकस्य चेदधिकोनकः।
भिन्नांशानां वर्गादिसाधनेषु यदि वर्गं करणीयम् चेत् अंश
एवं हर उभयमपि वर्गं करणीयम्। घने अपि उभयोः घनमेव करणीयम्।
भिन्नांशानां घन वर्गादि साधनम्।
हरांशयोः कृती वर्गे घनौ घनविधौ मुने।
पदसिद्ध्यै पदे कुर्याद् अथो खं सर्वतश्च खम्।।
नारदमतानुसारं
फलितज्यौतिषविचाराः-
द्वादशराशीनां विचाराः, षड्बलविचाराः, ग्रहाणां स्थानानि, ग्रहाणां दृष्टिः,
ग्रहाणां कालमानानि, ग्रहाणां
मैत्री-तात्कालिक-मैत्री, ग्रहाणां बलविचाराः, वियोनिनां अङ्गेषु राशिस्थानम्, वियोनिवर्णज्ञानम्,
पक्षिजन्मज्ञानम्, वृक्षादिजन्मज्ञानम्, गर्भमासानाम् अधिपतिः, आयर्दायकथनम्,
पिण्डायुसाधनम्, लग्नायुसाधनम्, अंशायुर्दायसाधनम्, अन्तर्दशाकथनम्,
अन्तर्दशासाधनस्य गुणकाः, दशाफलम्, आजीविका कथनम्, राजयोगस्य वर्णनम्,
चन्द्रयोगस्य वर्णनम्, द्विग्रहयोगफलम्, प्रव्रज्या योगः, सूर्यादि ग्रहाणां
राशिफलम्, चन्द्रोपरि दृष्टिफलम्, इत्यादयः तद्वदेव नारदमुनितः आधुनिकाः स्वीकृताः
सन्ति।
आयुर्दायविचारः- नारदमतानुसारम् 120 वर्षाणि पञ्चदिनानि यावत् मनुष्यस्य परमायुः।
वराहमिहिरादिभिः पञ्चरात्रयः इति कथितवन्तः। बलवान् लग्नेशः केन्द्रे तस्मिन्
शुभेन दृष्टे जातकः धनी दीर्घायुः च भवति। चन्द्रः स्वोच्चे शुभग्रहाः स्वराशौ
बलवान् लग्नेशः लग्ने भवति चेत् जातकस्य षष्ठि वर्षाणि भवन्ति। केन्द्रे शुभग्रहः अष्टमशुद्धिः सति सप्तति
वर्षाणां यावत् आयुः भवति। शुभग्रहाः स्वमूलत्रिकोणे गुरुः उच्चे, लग्नेशः
बलवाति सति 80 वर्षाणि यावत् आयुः भवति।
अष्टकवर्गः
– अष्टकवर्गः फलितकथने महत्त्वम् आवहति। अष्टकवर्गे
नारदोक्तमतम् क्वचित् भिन्ना अस्ति। बृहज्जातकम् एवं पराशरयोः भेदः अस्ति। तद्वत्
नारदमतानुसारम् अष्टकवर्गे क्वचित् व्यत्यासः । कुजाष्टकवर्गे शुक्रात् द्वादशस्थानमिति
बृहज्जातके, द्वितीयमिति नारदमतम्। बुधाष्टकवर्गे शुक्रात् 9 स्थाने इति नारदः। सः च अर्वाचीनेषु
न दृश्यते। मन्दात् , मङ्गलात् अपि 9 इति नारदपुराणे व्यत्यासः दृश्यते। लग्नात् द्वितीयस्थाने इति
बृहज्जातके अधिकम् दृश्यते। चन्द्रात् द्वितीयस्थानमिति बृहज्जातके अस्ति। परन्तु
नारदपुराणे अयं न दृश्यते। अर्कात् एकम् इति बृहज्जातके एकादशमिति नारदे च कथितम्। गुरोः अष्टकवर्गे , बुधात् नवमे नारदे,
द्वादशे बृहज्जातके, उल्लिखितः। लग्नात् नवमे
स्थाने नारदे पुराणे उल्लिखितः। शन्यष्टकवर्गे
बृहस्पति तः द्वादशस्थाने इति
नारदपुराणे उल्लिखितः।
आजीविका
कथनम्- जन्मकाले लग्नात्
दशमभवनात् आजीविकां चिन्तयेत्। जन्मकालिक लग्नात् दशम स्थाने यदि सूर्य प्रभृति
ग्रहाः स्थिते पिता माता शत्रुः मित्रम् भ्रातृ स्त्री कर्मचरः आदीनां वर्गात्
धनमाप्नोति। इति। जन्मकालिकलग्नम् जन्मकालिकसूर्यः जन्मकालिकचन्द्रः एतेषां
दशमभावाधिपतिः यस्य नवांशे अस्ति तस्योक्त फलानि कथयेत् इति नारदमतम्। इदमेव
बृहज्जातकादिषु प्रोक्तम्। दशमस्थानस्य स्वामि सूर्यनवांशे सति तृण सुवर्ण औषध
वस्त्रादिषु आजीविका जायेत। चन्द्रमा
नवांशे सति कृषिः जलजः स्त्रीद्वारा वा धनप्राप्तिः भवेत्। मङ्गलेन चेत् धातु
अस्त्र शस्त्र साहसेन वा आजीविका कुर्यात्। बुधनवांशके सति काव्य शिल्पकलादिषु
धनप्राप्तिः जायेत। गुरुनवांशक सति देवता ब्राह्मणानां द्वारा जीवेत। शुक्रनवांशे
सति रत्नादिषु आजीविका प्राप्स्येत। जातकः शनि नवांशके सति परपीडन परिश्रमेण वा
जीवेत।[v][1] अयमेव विस्तरेण अद्यत्वे
प्रयोगे कृते सफलता अनुभूयते।[vi]
दशानिरूपणम्- प्रायः वराहमिहिरेण अनसृतादशा विचारः नारदेन कथितः। विंशोत्तरीदशा न कथितः। अन्तर्दशाविचारः
अपि तद्वदेव अस्ति।
दशाफलम्- फलानाम् उच्चनीचादयो अनुपातः अपि नारदमुनिः मतमेव आधुनिकाः विस्तरेण
कथिताः इति मन्ये।
दिव्याङ्गकथनम्- चन्द्रमा मेषलग्ने हो तो मूकः, बधिरः अन्धः वा भवति।परन्तु
वराहमिहिराचार्यः अस्मिन् सहमतः नास्ति।
मेष वृषे कर्के च ईदृशाः न भवन्ति इति बृहज्जातके लिखति। परन्तु मेषे एवं भवति इति
नारदमुनिः।
स्त्रीविचारः-
स्त्रीणाम् स्वभावः, तेषां रूपम् आकारः गुणाः दोषाः सर्वम् नारदेन यथा कथितम् तद्
बृहज्जातकादिषु दृश्यन्ते। स्त्रीजातकलेखनावसरे 318 तमे श्लोके ब्रह्मवादिनी
स्त्रियः जातकम् अपि एवं ग्रथितम्। यथा- गुरुः मङ्गलः शुक्रः बुधः, ये चतुराः बली
भूय समराशौ लग्ने स्थित्वा जाता अनेकानां
शास्त्राणां वेत्ता विख्याता च भवति।
संहिता
विचाराः- संहिता विचारेषु वर्षेशः ग्रहाणां मन्त्रिमण्डलः प्रधानम्
भवति। तत् यथावत् वराहमिहिरादिभिः बृहत्संहितायाम् वर्णितः अस्ति। सूर्यमण्डले
दण्डवत्, कबन्धवत्, काकवत्, दृश्येत तर्हि समाजे रोगादयः, पीडाः भवन्ति। राशिमण्डलेषु सर्वेषाम् नक्षत्राणां 800 कलाः समानाः भवन्ति।
परन्तु प्रत्येकनक्षत्रविभागेषु योगताराः यत्र भवन्ति तत्र भोगस्थानम् कथ्यते।
भोगस्थानम् षण्नक्षत्रेषु मध्यभागे भवति अग्रे अपि भवति। अस्य वास्तविकमानं क्रमशः 395 कलाः 17 विकलाः च 1185 कलाः 52 विकलाः च यः स्वल्पान्तरेण 400,
1200 इति मन्यते। क्रमशः अयमेव अनागत गतयोगी इति कथ्यते। शेषनक्षत्रेषु भोगस्थानम् अन्तिमांशे एव भवति।
तस्मात् 800 कलाः एव भवन्ति। चन्द्रस्य शृङ्गोन्नतिः शुभप्रदः भवति। रेवतीतः
मृघशीर्षपर्यन्तं षट् नक्षत्राणि अनागतः
भवति। आर्द्रातः अनुराधापर्यन्तं 12 नक्षत्राणि मध्ययोगी तथा ज्येष्ठा तः
नवनक्षत्राणि गतयोगी च भवति। भरणी ज्येष्ठा आश्लेषा आर्द्रा शतभिषा स्वाती एते 400
कलाः भवन्ति। उत्तरात्रयरोहिण्यः पुनर्वसु विशाखा च एते 1200 कलाः भवन्ति।
ब्राह्म दैव मानव पित्र्य सौर सावन चान्द्र नाक्षत्र
बार्हस्पत्य एते नवमानाः भवन्ति। पूर्वादि अष्टदिक्षु ध्वजः, धूम्रः,
सिंहः, श्वानः, वृक्षः, खरः, गजः, ध्वांक्षः, काकः एते अष्ट आयाः सन्ति। परन्तु
वृक्षः आयः इति विचारःअत्रैव एव दृश्यते। आधुनिकग्रन्थेषु बृहद्वास्तमालादिषु
सर्पः इति आयः दृश्यते। गृहप्रमाणम् अपि कथितम्। गृहे स्तम्बानां सङ्ख्या
समसङ्ख्यायां स्यात्। गृहं न अधिकम् उन्नतिः करणीया न बहु नीचैः करणीया। तस्मात् स्व शक्त्यानुसारमेव उन्नतिः भित्तिः
निर्धारणीयः। गृहोपरि यः द्वितीयः अट्टालिका जायते तत्रापि ईदृशः विचारः करणीयः।
गृहस्य उन्नतिम् अष्टधा विभक्तः। एतेषां
नामानि पाञ्चालः, वैदेहः, कौरवः, कुजन्यकः, मागधः, शूरसेनः, गान्धारः, एवम्
अवन्तिकः चेति। ब्राह्मणानां आवन्तिकमानः,
क्षत्रियाणां गान्धारमानः,
वैश्यानां कौजन्यमानः श्रेष्ठः भवति।[vii] यात्राप्रकरणे ललाटिका योगः अन्यत्र न प्रसिद्धः। यस्मिन् दिशायां यत्रा करणीया तस्य दिशायाः
स्वामी ललाटगतः चेत् यात्रिकः न
प्रत्यायाति। पूर्वदिशायां यात्रावसरे लग्ने सूर्ये सति ललाटगतः योगः जायते। यदि
शुक्रः लग्नात् एकादशे द्वादशे वा भवने सति अग्निकोणे यात्रा न करणीया। मङ्गलः दशमभावे यदि स्यात् दक्षिणदिशि न करणीया।
राहु नवमे भवने अष्टमे भवने नैऋत्य कोणे यात्रायां ललाटिकः योगः जायते।
पश्चिमदिशि यात्रायां सप्तम सप्तमे
भवने शनौ ललाटिकः योगः जायते। वायुव्यकोणे यात्रायां पञ्चमे अथवा
षष्ठे भावे यात्रा क्रियते तर्हि ललाटिकः योगः जायते। बुधः चतुर्थभावे उत्तरदिशि
यात्रायां ललाटिकः योगः भवति। गुरुः द्वितीये तृतीये वा भूत्वा
ईशान्यकोणयात्रायां ललाटिकः योगः जायते।
वृष्टिविचारः
वर्षाप्रवेशः
आर्द्रानक्षत्रे यदि शुक्लपक्षे
चन्द्रमा जलचरराशौ स्थिते
अधिकवृष्टिः जायते। लग्नात् केन्द्रे स्थितः
शुभग्रहेण दृष्टः अधिकवृष्टिः जायते।
यदि वर्षप्रवेशकाले चन्द्रः पापदृष्टे
अल्पवृष्टिः कुर्यात्। यथा चन्द्रेण फलितं चिन्त्यते तथा शुक्रेणापि
चिन्तयित्वा उभयोः फलानि परिशील्य वृष्टिविचारं जानीयात्।[viii] वर्षकाले आर्द्रातः
स्वात्याः मध्ये यत्र कुत्रापि स्थितः चन्द्रशुक्रयोः समसप्तके स्थितिः, शुभेन दृष्टे
चन्द्रे अवश्य वृष्टिः जानीयात्।
विविधविकाराः-
यदि
आकाशे गन्धर्वनगरः दृश्यते, दिने ताराणां
दर्शनम्, उल्कापतनम्, काष्ठः अथवा तृण अथवा शोणितकी वृष्टिः, गन्धर्वाणां दर्शनम्, दिग्दाहः, दिशानां धूमः,
दिने या रात्रौ भूकम्पः, रात्रौ इन्द्रधनुः दर्शनम्, मस्तकत्रयस्य बालस्य जननम्,
धूमकेतूनां जननम्, रात्रौ काकानां जननम्
इत्यादयः नैसर्गिकविकाराः इति नारदमतम्। यद्यपि अनेके विचाराः सन्ति तान् सर्वान्
ग्रथितुं न शक्यते। तस्मात् पत्रेऽस्मिन् केवलं स्वल्पम् एव दर्शितमस्ति।
|
Dr. Muralisham H
Assistant Professor.
Sri Sathya Sai University for Human Excellence 585316.
Mob-7907181923. Email id –muralipathra@gmail.com.
[i] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् प्रथमः
श्लोकः।
[ii] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् 16-18 श्लोकः।
[iii] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् 18-20
श्लोकः।
[iv] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् 21-22
श्लोकः।
[v] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् 167-169
[vi] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् श्लोकसङ्ख्या -592-598
[vii] पूर्वभागे
द्वितीयपादे ज्यौतिषस्य वर्णनम् श्लोकसङ्ख्या 721-722
No comments:
Post a Comment